________________ सूत्र - 19] श्रीमहावीरप्रभोः देहवर्णनम् 33 'पलिउच्छूढ'त्ति पर्यवक्षिप्तश्च-प्रसारित इति समासः, पाठान्तरे 'आयाण-फलिहउच्छूढ 'त्ति आदीयते अस्मादित्यादानम्-अर्गलास्थानं तस्माद् ‘उच्छूढो'त्ति निष्काशितः ‘फलिहो'त्ति अर्गलादण्डः स इव ताविव वा दीघों बाहू यस्य स तथा, वाचनान्तरे 'युगसन्निभपीनरतिदपीवरप्रकोष्ठश्चासौ संस्थितोपचित-घनस्थिरसुबद्धसुनिगूढपर्वसन्धिश्चेति' कर्मधारयपदमिति / 'रत्ततलोवइय-मउयमंसल-सुजायपसत्थलक्खणअच्छिद्दजालपाणी' रक्ततलौ-लोहिताधोभागौ उपचितौ-उन्नतौ मृदुकौ-कोमलौ मांसलौ-समांसौ प्रशस्तलक्षणौ-शुभचिह्नौ सुजातौसुनिष्पन्नौ अच्छिद्रजालौ-विवक्षिताऽङ्गुल्यन्तरालसमूहरहितौ पाणी-हस्तौ यस्य स तथा / 'पीवरकोमलवरंगुली' व्यक्तं, नवरं पीवरा:-महत्यः, क्वचित्तु दृश्यते 'पीवर-वट्टियसुजाय-कोमल-वरंगुली' व्यक्तं च / 'आयंब-तंब-तलिण-सुइ-रुइलनिद्ध-णक्खे' 'आयंबतंब'त्ति ताम्रवत् आताम्रा-ईषल्लोहिताः तलिना:-प्रतलाः शुचयः-पवित्राः रुचिरा:दीप्ताः स्निग्धा-अरूक्षा नखा:-कररुहा यस्य स तथा / 'चंदपाणिलेहे' चन्द्राकाराः पाणौ रेखा यस्य स तथा, एवमन्यान्यपि त्रीणि / 'दिसासोत्थियपाणिलेहे' दिक्स्वस्तिकः-दक्षिणावर्तस्वस्तिकः, एतदेवानन्तरोक्तं विशेषणपञ्चकं तत्प्रशस्तताप्रकर्षप्रतिपादनाय सङ्ग्रहवचनेनाऽऽह-चन्द्र-सूर-शङ्ख-चक्र-दिक्स्वस्तिकपाणिलेखः, अत एव वाचनान्तरेऽधीयते-'रविससि-संख-चक्क-सोत्थिय-विभत्त-सुविरइय-पाणिलेहे' व्यक्तम्, नवरं विभक्ता-विभागवत्यः सुविरचिता:-सुष्ठकृताः स्वकीयकर्मणा / 'अणेगवरलक्खणुत्तमपसत्थसुइरइयपाणिलेहे' अनेकैर्वरलक्षणैरुत्तमाः प्रशस्ताः शुचयो रतिदाश्च-रम्याः पाणिलेखा यस्य स तथा / कणग-सिलातलुज्जल-पसत्थ-समतल-उवचिय-वित्थिण्णपिहुलवच्छे सिरिवच्छंकितवच्छे अकरंडुय-कणग-रुयग-निम्मल-सुजात-निरुवहयदेहधारी अट्ठ सहस्स-पडिपुण्ण-वरपुरिसलक्खणधरे सण्णयपासे संगयपासे सुंदरपासे सुजातपासे मितमाइय-पीण-रइत-पासे उज्जुग-सम-संहिय-सुजात-जच्च-तणुकसिण-निद्ध-आएज्ज-लडहरमणिज्जरोमराई झस-विहग-सुजात-पीण-कुच्छी अथ प्रकृतवाचनाऽनुश्रीयते-कणगसिलायलुज्जल-पसत्थ-समतल-उवचियवित्थिन्न-पिहुल-वच्छे' कनकशिलातलवदुज्ज्वलं प्रशस्तं च-शुभं समतलञ्च१. पलिहोच्छूढ-मु. // 2. B खं. / सुसम्बद्ध० मु. // 3. तांब्रवत्-आतांब्रा-खं. // 4. B खं. / चन्द्रसूर्य० मु. // 5. Bखं. / ०णुत्तिम० मु. / / 6. ०लडहसुकुमालमउचरम०पु.प्रे॥ श्री औप.५