________________ श्री औपपातिकसूत्रम् . 'अवट्ठिय-सुविभत्त-चित्त-मंसू' अवस्थितानि-अवर्धिष्णूनि सुविभक्तानिविविक्तानि चित्राणि-अतिरम्यतया अद्भुतानि श्मश्रूणि-कूर्चकेशा यस्य स तथा / 'मंसलसंठिय-पसत्थ-सद्दूल-विउल-हणूए' मांसल:-उपचितमांसः संस्थितः-विशिष्टसंस्थानः प्रशस्त:-शुभ: शार्दूलस्येवं-व्याघ्रस्येव विपुलः-विस्तीर्णो हनुः-चिबुकं यस्य स तथा / 'चउरंगुल-सुप्पमाण-कंबुवरसरिस-गीवे' चतुरङ्गुललक्षणं सुष्ठ प्रमाणं यस्याः सा तथाविधा कम्बुवरसदृशी च-उन्नततया वलित्रययोगाच्च प्रधानशखसदृशी ग्रीवा-कण्ठो यस्य स तथा / 'वरमहिस-वराह-सीह-सठूल-उसभ-नागवर-पडिपुण्णविउलक्खंधे' वरमहिष:-प्रधानः सैरिभेयः, वराह:-शूकरः, सिंह:-केसरी, शार्दूलो-व्याघ्रः, ऋषभोवृषभः, नागवर:-प्रधानगजः एषामिव प्रतिपूर्णः-स्वप्रमाणेनाऽहीनो विपुलो-विस्तीर्णः स्कन्धः-अंशदेशो यस्य स तथा / 'जुगसन्निभ-पीण-रइय-पीवरपउट्ठ-सुसंठिय-सुसिलिट्ठ-विसिट्ठघण-थिर-सुबद्ध संधि-पुरवर-फलिह वट्टियभुए' युगसन्निभौ-वृत्तत्वाऽऽयतत्वाभ्यां यूपतुल्यौ, पीनौ-उपचितौ, रतिदौ-पश्यतां सुखकरौ, पीवरप्रकोष्ठौ-अकृशकलाचिकौ, सुसंस्थितौ-विशिष्टसंस्थानौ, सुश्लिष्टा:-सङ्गताः विशिष्टा:-प्रधानाः, घना-निबिडाः, स्थिरा:-नातिश्लथाः, सुबद्धाः-सुष्ठु बद्धाः स्नायुभिः, सन्धयः-सन्धानपनि ययोस्तौ तथा, पुरवरपरिघवत्-नगराऽर्गलावद्वर्तितौ च बाहू यस्य स तथा * / वाचनान्तरे 'पुरवरफलिहवट्टियभुए'इत्येतावदेव भुजविशेषणं दृश्यते / भुयगीसर-विउल-भोग-आदाण-पलिउच्छूढ-दीहबाहू रत्ततलोवचित-मउयमंसलसुजातपसत्थ-लक्खणअछिद्दजालपाणी पीवरकोमलवरंगुली आयंबतंब-तलिण-सुइ-रुइलणिद्धणक्खे चंदपाणिलेहे सूरपाणिलेहे संखपाणिलेहे चक्पाणिलेहे दिसासोत्थियपाणिलेहे चंद-सूर-संख-चक्क दिसासोत्थियपाणिलेहे 'भुयगीसर-विपुलभोग-आदाण-पेलिउच्छूढ-दीहबाहू'भुजगेश्वरो-नागराजस्तस्य यो विपुलो-महान् भोगो-देहः स तथा, स चासौ आदानार्थम्-ईप्सितार्थग्रहणाय 1. ०मांसं संस्थितं विशिष्टसंस्थानं प्रशस्तं शुभं-B खं. // 2. विपुलं विस्तीर्णं हनु-B खं. // 3. B खं. / पलिहउ० मु. // 3. पीवरवट्ठितसुजात० खं. पु प्रे. / / 4. इतोऽग्रे 'उवचितपुरवरकवाडवित्थिण्णपिहुलवच्छे' इति पाठः पु. प्रे. [ मध्ये वर्तते वृत्तौ वाचनान्तरे च अस्ति / /