________________ सूत्र - 19.] श्रीमहावीरप्रभोः देहवर्णनम् किण्हब्भराइ-तणु-कसिणनिद्धभमुहे' आनामितम्-ईषन्नामितं यच्चापं-धनुस्तद्वद्रुचिरेमनोज्ञे कृष्णाभ्रराजीव-कालकमेघरेखेव तनू-तनुके कृष्णे-काले स्निग्धे च-सुच्छाये ध्रुवौनेत्रावयवविशेषौ यस्य स तथा, वाचनान्तरे तु दृश्यते 'आणामियचावरुचिलकिण्हब्भराइसंठियसंगय-आयय-सुजार्यभुमए' आनामितचापवद्रुचिरे कृष्णाभ्रराजीवच्च संस्थितेतत्संस्थानवत्यौ सङ्गते-उचिते आयते-दीर्घ सुजाते-सुनिष्पन्ने भ्रवौ यस्य स तथा / 'अवदालिय-पुंडरीय-नयणे' अवदालितं-रविकरैविकासितं यत्पुण्डरीकं-सितपद्यं तद्वन्नयने यस्य स तथा, अत एव 'कोकासिअ-धवल-पत्तलच्छे' कोकासियत्ति-पद्मवद्विकसिते धवले च क्वचिद्देशे पत्रले च-पक्ष्मवती अक्षिणी-लोचने यस्य स तथा / 'गरुलायतउज्जुतुंगनासे' गरुडस्येवायता-दीर्घा ऋज्वी-अवक्रा तुङ्गा-उन्नता नासा-नासिका यस्य स तथा / 'उयवियसिलप्पवाल-बिंबफलसण्णिभाहरोठे' उयवियत्ति-परिकर्मितं यच्छिलारूपं प्रवालं विद्रुममित्यर्थः, बिम्बफलं-गोल्हाफलं तयोः सन्निभः-सदृशो रक्ततया उन्नतमध्यतया च अधरोष्ठः-अधस्तनदन्तच्छदो यस्य स तथा / 'पंडुर-ससिसगल-विमलनिम्मलसंखगोक्खीर-फेण-कुंद-दगरयमुणालिया-धवलदंतसेढी' पाण्डुरम्-अकलङ्कं यच्छशिशकलंचन्द्रखण्डं विमलानां मध्ये निर्मलश्च यः शङ्खः गोक्षीर-फेने च प्रतीते कुन्दं-पुष्पविशेषः उदकरजश्च-तोयकणा मृणालिका च-बिशिनी तद्वद्धवला दन्तश्रेणिर्यस्य स तथा / 'अखण्डदन्ते'सकलरदनः, 'अप्फुडियदंते' अजर्जरदन्तः, 'अविरलदंते' घनरदनः, 'सुनिद्धदंते 'त्ति व्यक्तं, 'सुजायदंते' सम्यग्निष्पन्नदन्तः ‘एगदंतसेढी विव अणेगदंते' एकस्य दन्तस्य श्रेणिः-पङ्क्तिर्यस्य स तथा, स इव परस्परानुपलक्ष्यमाणदन्तविभागत्वात् अनेके दन्ता यस्य स तथा / 'हुयवह-निद्धंत-धोय-तत्त-तवणिज्ज-रत्ततल-तालु-जीहे' हुतवहेन-अग्निना निर्मातं-दग्धमलं धौतं-जलप्रक्षालितं तप्तं-सतापं यत्तपनीयं-सुवर्णं तद्वद्रक्ततलं-लोहितरूपं तालु च-काकुदं जिह्वा च-रसना यस्य स तथा / अवट्ठित-सुविभत्त-चित्त-मंसू, मंसल-संठित-पसत्थ-सर्ल-विपुल-हणुए, चउरंगुल-सुप्पमाण-कंबुवरसरिस-गीवे, वरमहिस-वराह-सीह-सर्ल-उसभणागवर-पडिपुन्नविपुलखंधे, जुगसन्निभ-पीण-रइय-पीवरपउठ्ठ-संठिय-सुसिलिट्ठविसिठ्ठघण-थिर-सुबद्ध-संधि-पुरवर-फलिह-वट्टियभुए 1. खं. / कालिक०मु. // 2. B खं. / भमुए-मु. // 3. ०वत्यौ / B खं. // 4. बिम्बा० B खं. // 5. पंडर० B खं.। ६...ससिमंगलवि० B // 7. पृष्पविशेषोदक० खं. / / 8. मृणालका. खं. / /