________________ 30 श्री औपपातिकसूत्रम् भुअमोयग-भिंग-नेल-कज्जल-पहट्ठभमरगण-णिद्ध-निकुरुंब-निचिय-कुंचियपयाहिणावत्त-मुद्ध-सिरए' शाल्मल्या:-वृक्षविशेषस्य यद्बोण्डं -फलं घननिचितम्-अतीव निबिडं 'छोडिय'ति छोटितं- स्फोटितं तद्वत् मृदवः-सुकुमाराश्च विशदाश्च-व्यक्ताः प्रशस्ताश्चशुभाः सूक्ष्माश्च-श्लक्ष्णाः लक्षणाश्च-लाक्षणिकाः सुगन्धयश्च-सुरभयः सुन्दराश्च-शोभनाः भुजमोचकवद्-रत्नविशेष इव भृङ्गवत्-कीटविशेषवदङ्गारविशेषवद्वा नीलवत्-नीलीविकारवत् अथवा भृङ्गनैल्यवत् कज्जलवत्-मषीव प्रहृष्टभ्रमरगणवच्च -निरुजद्विरेफवृन्दमिव स्निग्ध:कृष्णच्छायो निकुरुम्बः-समूहो येषां ते तथा, ते च निचिताश्च-निबिडाः कुञ्चिताश्चकुण्डलीभूताः प्रदक्षिणावर्ताश्च-प्रतीताः मूर्द्धनि-मस्तके शिरोजा-वाला यस्य स तथा / अधिकृतवाचनायां भुजमोचकशब्दादारभ्य एवेदमधीयते न सामलीत्यादीति 'दालिमपुष्फपगास-तवणिज्जसरिस-निम्मलसुणिद्ध-केसंत-केसभूमी' दाडिमपुष्पप्रकाशा' च रक्तेत्यर्थः, तपनीयसदृशी च-रक्तसुवर्णसमवर्णेत्यर्थः, निर्मला च सुस्निग्धा च प्रतीता केशान्तेवालसमीपे केशभूमिः-केशोत्पत्तिस्थानभूता मस्तकत्वक् यस्य स तथा / 'घणनिचिये 'त्यादि प्राग्वत्, छत्राकारोत्तमाङ्गदेशः, उन्नतत्वसाधर्म्यात् / निव्वण-सम-लट्ठ-मट्ठचंदद्धसमनिडाले' निव्रणं-विस्फोटकादिकृतक्षतरहितं समम्-अविषममत एव लष्टं -मनोज्ञं मृष्टं -शुद्धं चन्द्रार्धसमं-शशधरशकलसदृशं ललाटम्-अलिकं यस्य स तथा / 'उडुवइपडिपुण्णसोमवयणे' इह प्राकृतत्वात् प्रतिपूर्णोडुपतिसौम्यवदन इति दृश्यम्, उडुपतिः-चन्द्रः। 'अल्लीणपमाणजुत्तसवणे' आलीनौ न तु टप्परौ प्रमाणयुक्तौ-स्वप्रमाणोपेतौ श्रवणौ-कर्णौ यस्य स तथा, अत एव ‘सुश्रवणः' शोभनश्रोत्र: शोभनश्रवणव्यापारो वा / पीण-मंसल-कवोलदेसभाए, आणामियचावरुइल-किण्हब्भराइ-तणुकसिणनिद्धभमुहे अवदालियपोंडरीयनयणे, कोकासियधवलपत्तलच्छे गरुलायतउज्जु-तुंग-नासे, उयवियसिलप्पवाल-बिंबफल-सन्निभाधरोटे, पंडुरससिसगल-विमलनिम्मलसंख-गोक्खीरफेण-कुंद-दगरय-मुणालिया-धवलदंत-सेढी, अखंडदंते, अप्फुडियदंते, अविरलदंते, सुणिद्धदंते, सुजातदंते, एग-दंतसेढी विव अणेगदंते, हुयवह-निद्धंत-धोय-तत्त-तवणिज्ज-रत्ततल-तालु-जीहे / _ 'पीण मंसल-कवोल-देसभागे' पीनौ-अकृशौ यतो मांसलौ-समांसौ कपोलौ-गण्डौ तयोस्तावेव वा मुखस्य देशरूपौ भागौ यस्य स तथा / 'आणामियचावरुइल१. खं / नैल०मु.। नेल० 0 / / 2. B खं.। भृङ्गनेलवत्-मु. / नैल्य-नील्य-प्र.इति पु.प्रे. पार्श्वभागे // 3. दाडिम०खं // 4. ०ट्ठसुद्धचंद०खं.।। 5. मु. B| निलाडे. खं.।। 6. परिपू० B // 7.0 श्रोत्रव्या० B