________________ 29 सूत्र - 19.] श्रीमहावीरप्रभोः देहवर्णनम् परिणए' शकुनेरि व-पक्षिण इव 'पोसं'ति अपानदेशः पुरीषोत्सर्गे निर्लेपतया यस्य स तथा, पृष्ठञ्च-प्रतीतमन्तरे च-पृष्ठोदरयोरन्तराले पावित्यर्थः, उरू च-जङ्के इति द्वन्द्वस्तत एते परिणता-विशिष्टपरिणामवन्तः सुजाता यस्य स तथा / 'पउमुप्पल-गंधसरिस-निस्सास-सुरभिवयणे' पञ-कमलम् उत्पलं च-नीलोत्पलमथवा पञ-पद्मकाभिधानं गन्धद्रव्यम् उत्पलं च उत्पलकुष्ठं तयोर्गन्धेन-सौरभ्येण सदृशः-समो यो निःश्वास:-श्वासवायुस्तेन सुरभि-सुगन्धि वदनं-मुखं यस्य स तथा / 'छवी 'त्ति छविमान् उदात्तवर्णः, सुकुमारत्वचा युक्त इत्यर्थः “निरायंक-उत्तमपसत्थ-अइसेयनिरुवमपले' निरातङ्कं- नीरोगम् उत्तमं प्रशस्तमतिश्वेतं निरुपमं च पलं-मांसं, पाठान्तरेण तलं-रूपं यस्य स तथा, पाठान्तरपक्षे 'अतिसेय' इति अतिश्रेयः-अत्यन्तप्रशस्यम् / 'जल्ल मल्ल कलंकसेय-रय-दोसवज्जियसरीरनिरुवलेवे' याति च लगति चेति यल्ल:-स्वल्पप्रयत्नाऽपनेयः स चासौ मलश्चेति यल्लमलः, स च कलङ्कं च-दुष्टतिलकादिकं स्वेदश्च-प्रस्वेदो रजश्च-रेणुस्तेषां यो दोषो-मालिन्यकरणं तेन वर्जितं शरीरं यस्य स तथा, स चासावत एव निरुपलेपश्चेति कर्मधारयः। 'छायाउज़्ज़ोवियंगमंगे' छायया-दीप्त्या उद्योतितं-प्रकाशितम् अङ्गमङ्ग यस्य स तथा / घणनिचियसुबद्धलक्खणुण्णयकूडागारनिभ-पिडियग्गसिरए। सामलिबोंडघणनिचियछोडियमिउ विसय-पसत्थ-सुहुम- लक्खण-सुगंध-सुंदरे भुयमोयग-भिंग-नेल-कज्जल-पहट्ठभमरगण-निद्ध-निकुरुंब-निचिय-कुंचिय-पयाहिणावत्तमुद्धसिरए, दालिमपुप्फपगास-तवणिज्जसरिस-निम्मलसुनिद्ध केसंत-केसभूमी छत्तागारुत्तिमंगदेसे निव्वण-सम-लट्ठमठ्ठचंदद्धसमनिडाले, उडुवइपडिपुन्नसोम्मवयणे, अल्लीणपमाणजुत्तसवणे सुस्सवणे, _ 'घणनिचियसुबद्धलक्खणुण्णयकूडागारनिभपिंडियग्गसिरए' घननिचितम्अत्यर्थनिबिडं घनवद्वा-अयोधनवत् निचितं सुबद्धं-सुष्ठ स्नायुबद्धं लक्षणोन्नतं-प्रशस्तलक्षणं कूटस्य-पर्वतशिखरस्य आकारेण-संस्थानेन निभं-सदृशं यत्तत्तथा, पिण्डिकेव-पाषाणपिण्डिकेवाग्रम्-उष्णीषलक्षणं यस्य तत्तथा, तदेवंविधं शिरो यस्य स घननिचितादिविशेषणशिरस्कः। 'सामलिबोंड-घणनिचियच्छोडियमिउ-विसय-पसत्थ-सुहुम-लक्खण-सुगंध-सुंदर१. B / 'अतिस्सेय'मु / अतिशेय-खं.।। 2. खं.। मल्ल० मु.॥ 3. खं. / मल्लः-मु.॥ 4. ०लक्खणपसत्थसुंदरे० पु.प्रे...||