________________ 28 श्री औपपातिकसूत्रम् सव्वण्णू, सव्वदरिसी, सिवमयलमरुय-मणंतमक्खयमव्वाबाहमपुणरावत्तगं सिद्धिगइणामधेज्जं ठाणं संपाविउकामे अरहा जिणे, केवली सत्तहत्थूस्सेहे, ___ 'सव्वण्णू सव्वदरिसी'त्ति, इह ज्ञान-विशेषावबोधः, दर्शनं च-सामान्यावबोधः, सिद्धावस्थायां पुरुषस्य कैश्चित् ज्ञानं नाभ्युपगम्यते प्रकृतिविकारस्य बुद्धेरभावादित्येतन्मतव्यपोहार्थमिदं, तथा 'शिवं' सर्वोपद्रवरहितत्वाद् ‘अचलं' स्वाभाविक प्रायोगिकचलनरहितत्वात् 'अरुज' रोगाभावात् 'अनन्तम्' अनन्तार्थविषयज्ञानस्वरूपत्वात्, ‘अक्षयम्' अनाशं, साद्यपर्यवसितत्वात् अक्षतं वा परि पूर्णत्वात्, 'अव्याबाधम्' अपीडाकारित्वात्, 'अपुनरावर्तकं' पुनर्भवाऽभावात्, सिद्धिगतिरिति नामधेयं-प्रशस्तं नाम यस्य तत्सिद्धिगतिनामधेयं, तिष्ठन्त्यस्मिन्निति स्थानं-क्षीणकर्मणो जीवस्य स्वरूपं लोकाग्रं वा, जीवस्वरूपविशेषणानि तु लोकाग्रे उपचारादवसेयानीति, सम्प्राप्तुकाम इव सम्प्राप्तुकामस्तत्राऽप्राप्त इत्यर्थः / 'जिणे जाणए' इत्यादिविशेषणानि क्वचिन्न दृश्यन्ते, दृश्यन्ते पुनरिमानि'अरह 'त्ति अर्हन्-अशोकादिमहापूजार्हत्वात् अविद्यमानं वा रह:-एकान्तं प्रच्छन्नं सर्वज्ञत्वाद् यस्य सोऽरहाः, जिनः प्राग्वत्, केवलानि-सम्पूर्णानि शुद्धानि अनन्तानि वा ज्ञानादीनि यस्य सन्ति स केवली, अत एव 'सव्वण्णू सव्वदरिसी'। सत्तहत्थूस्सेहे ' सप्तहस्तप्रमाणः। समचउरंससंठाणसंठिए, वज्जरिसभनारायसंघयंणे, अणुलोमवाउवेगे, कंकग्गहणी कवोतपरिणामे, सउणिपोसपिटुंतरोरुपरिणए, पउमुप्पलगंधसरिस-निस्साससुरभिवयणे, छवी, निरातंक-उत्तमपसत्थ-अइसेयनिरुवमपले, जल्ल मल्ल कलंक- सेय-रय-दोसवज्जियसरीरनिरुवलेवे, छायाउज्जोइयंगमंगे, ____ 'समचउरंससंठाणसंठिए' समं-तुल्यम् अध:कायोपरि काययोर्लक्षणोपेततया तच्च तच्चतुरस्रमिव चतुरस्त्रं च-प्रधानलक्षणोपेततयैव समचतुरस्रं तच्च तत् संस्थानं च आकारस्तेन संस्थितो यः स तथा। तथा 'वज्रर्षभनाराचसंहनन' इति प्रथमसंहननः / 'अणुलोमवाउवेगे' अनुलोम:-अनुकूलो वायुवेगः-शरीरान्तर्वर्तिवातजवो यस्य स तथा / 'कङ्कग्रहणी' कङ्क :-पक्षिविशेष: तस्येव ग्रहणी-गुदाशयो यस्य नीरोगवर्चस्कतया स तथा / 'कवोयपरिणामे' कपोतस्येव-पक्षिविशेषस्येव परिणामः-आहारपाको यस्य स तथा, "कपोतस्य हि पाषाणलवानपि जठराग्निर्जरयतीति" किल श्रुतिः / 'सउणिपोसपिटुंतरोरु१. सत्तुस्सेहे - खं. // 2. अनाद्यपर्य० खं.॥ 3. खं. B | 'संपाविउकामे'त्ति सं० मु.।। 4. पु.प्रे. आदौ न दृश्यते / / 5. सत्तुस्सेहो - B खं.। 6. सेयरयरहियसरीरे-B || 7-8. B खं.। ०क्षणोपपेत.मु.॥ 9. खं. BI वायवो -मु.॥