SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ सूत्र - 19] श्रीमहावीरप्रभुगुणवर्णनम् 27 कृत्वा चौरादिविलुप्तधनान्निरुपद्रवं स्थान प्रापयन् परमोपकारी भवतीत्येवमिहापीति दर्शयन्नाह -'शरणदयो' निरुपद्रवस्थानदायको, निर्वाणहेतुरित्यर्थः, यथा हि लोके चक्षुर्मार्गशरणदानादुःस्थानां जीवनं ददात्येवमिहापीति दर्शयन्नाह -जीवनं जीवो-भावप्राणधारणम्, अमरणधर्मत्वमित्यर्थः, तं दयत इति जीवदयो, जीवेषु वा दया यस्य स 'जीवदयः', तथा दीप इव समस्तवस्तुप्रकाशकत्वात् द्वीपो वा संसारसागरान्तर्गताङ्गिवर्गस्य नानाविधदुःखकल्लोलाऽभिघातदुःस्थितस्याऽऽश्वासहे तुत्वात्, तथा त्राणम्-अनर्थप्रतिहननं तद्धेतुत्वात्त्राणं, तथा सरणं, गती, पइट्ठा, धम्मवरचाउरंतचक्कवट्टी, अप्पडिहयवरनाणदंसणधरे, वियट्टछउमे, A 'जिणे, जाणए, तिण्णे, तारए, मुत्ते, मोयए, बुद्धे, बोहए, शरणम्-अर्थसम्पादनं तद्धेतुत्वाच्छरणं, तथा 'गई 'त्ति गम्यतेऽभिगम्यते दुःस्थितैः सुस्थतार्थमाश्रीयते इति गतिः, 'पइट्ट 'त्ति प्रतिष्ठन्त्यस्यामिति प्रतिष्ठा-आधार : संसारगर्ते प्रपततः प्राणिपूगस्येति, तथा त्रयस्समुद्राश्चतुर्थो हिमवानेते चत्वारः, पृथिव्या अन्ताःपर्यन्तास्तेषु स्वामितया भवतीति चातुरन्तः, स चासौ चक्रवर्ती च चातुरन्तचक्रवर्ती, वरश्चासौ चातुरन्तचक्रवर्ती च वरचातुरन्तचक्रवर्ती-सर्वराजातिशायी, धर्मविषये वरचातुरन्तचक्रवर्ती धर्मवरचातुरन्तचक्रवर्ती, सकलधर्मप्रणेतृणां मध्ये सातिशयत्वादिति, तथा अप्रतिहतेकटादिभिरस्खलिते अविसंवादके वा अत एव क्षायिकत्वाद्वा वरे-प्रधाने ज्ञानदर्शने-केवललक्षणे धारयतीति अप्रतिहतवरज्ञानदर्शनधर :, कथमस्यैते इत्यत आह-यतो 'व्यावृत्तच्छद्मा' निवृत्तज्ञानाद्यावरणो निर्मायो वा, एतच्च रागादिजयात्तस्येत्याह-'जिनो' रागादिजेता, रागादिजयश्च रागादिस्वरूपादिज्ञानादित्यत आह- 'जाणए 'त्ति, ज्ञायको-ज्ञाता रागादिभावसम्बन्धिनां स्वरूपकारणफलानामिति, अत एव 'तिण्णे'त्ति तीर्ण इव तीर्णः, संसारसागरमिति गम्यते, अत एव 'तारकः' संसारसागरादुपदेशवर्तिनां भगवानिति, तथा 'मुक्तो' बाह्याभ्यन्तरग्रन्थात् कर्मबन्धनाद्वा, अत एव 'मोचकः' अन्येषामुपदेशवर्तिनां, तथा 'बुद्धे 'त्ति बुद्धवान् बोद्धव्यम् अत एव 'बोधकः' अन्येषामिति, एतावन्ति विशेषणानि भवावस्थामाश्रित्योक्तानि / अथ सिद्धावस्थामाश्रित्योच्यते 1. AA चिह्नद्धयमध्यवर्तिपाठः पु प्रे। नास्ति / इतोऽग्रे पु प्रे. - खं. मध्ये पाठस्य क्रमे अनेकत्र भिन्नता दृश्यते / 2. दुस्थिते:-खं.॥ 3. च चातुरन्तचक्रवर्ती खं. नास्ति // 4. वरचातुरन्तचक्रवर्ती-B खं. नास्ति / /
SR No.004431
Book TitleUvavai Suttam
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherMahavir Jain Vidyalay
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_aupapatik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy