________________ 26 श्री औपपातिकसूत्रम् राजस्थानीयाः, 'माडंबिका' छिन्नमडम्बाधिपाः 'कोडुंबिया' कतिपयकुटुम्बप्रभवोऽवलगकाः, मन्त्रिणः प्रतीताः, महामन्त्रिणो-मन्त्रिमण्डलप्रधानाः, हस्तिसाधनोपरिका इति वृद्धाः, गणका-ज्योतिषिकाः, भाण्डागारिका इति वृद्धाः, दौवारिकाः-प्रतिहारा: राजदौवारिका वा, अमात्या-राज्याधिष्ठायकाः, चेटा:-पादमूलिकाः, पीठमर्दाः-आस्थाने आसनाऽऽसन्नसेवकाः, वयस्या इत्यर्थः, नगरं -नगरवासिप्रकृतयः, निगमा:-कारणिका: वणिजो वा, श्रेष्ठिन:-श्रीदेवताध्यासितसौवर्णपट्टविभूषितोत्तमाङ्गाः, सेनापतयो-नृपतिनिरूपितचतुरङ्गसैन्यनायकाः, सार्थवाहाः-सार्थवाहकाः, दूता-अन्येषां राजादेशनिवेदकाः, सन्धिपाला:राज्यसन्धिरक्षकाः, एषां द्वन्द्वस्ततस्तैः, इह तृतीयाबहुवचनलोपो द्रष्टव्यः, 'सद्धिं ति सार्द्ध / सहेत्यर्थः, न केवलं तत्सहितत्वमेव, अपि तु तैः समिति-समन्तात्परिवृतः-परिकरित इति // 18 // 19 - तेणं कालेणं तेणं समएणं समणे भगवं महावीरे आइगरे, तित्थगरे, सहसंबुद्धे, पुरिसोत्तमे, पुरिससीहे, पुरिसवरपुंडरीए, पुरिसवरगंधहत्थी, अभयदए, चक्खुदए, मग्गदए, सरणदए, जीवदए, दीवो, ताणं, ___ [19] महावीरवर्णके लिख्यते-'श्रमणो' महातपस्वी नामान्तरं वा इदमन्तिमजिनस्य, 'भगवान्' समग्रैश्वर्यादियुक्तः, 'महावीरो' देवादिकृतोपसर्गादिष्वचलितसत्त्वतया देवप्रतिष्ठितनामा, 'आदिकर :' आदौ प्रथमतया श्रुतधर्मस्य करणशीलत्वात्, 'तीर्थकर :' सङ्घकरणशीलत्वात् ‘सहसम्बुद्धः' स्वयमेव सम्यग्बोद्धव्यस्य बोधात्, कुत एतदित्याह -यत: 'पुरुषोत्तमः' तथाविधातिशयसम्बन्धेन पुरुषप्रधानः, उत्तमत्वमेवोपमात्रयेणाह -'पुरुषसिंह H' शौर्यातिशयात्, ‘पुरुषवरपुण्डरीकं' पुरुष एव वरपुण्डरीकम्-धवलपद्मं पुरुषवरपुण्डरीकं, धवलता चास्य सर्वाऽशुभमलीमसरहितत्वात् एवं 'पुरुषवरगंधहस्ती' गन्धहस्तिता चास्य सामान्यगजकल्पपरचक्र दुर्भिक्ष-जनमरकादिदुरितविनाशनात्, तथा न भयं दयते-ददाति प्राणापहारकरणरसिकोपसर्गकारिण्यपि प्राणिनीति अभयदयः, अभया वा सर्वप्राणिभयपरिहारवती दया-घृणा यस्य सोऽभयदयः, न केवलमयमनर्थं न करोति अपि त्वर्थमपि करोतीति दर्शयन्नाह -चक्षुरिव चक्षुः-श्रुतज्ञानं तद्दयते य: स 'चक्षुर्दयः', यथा हि लोके चक्षुर्दत्त्वा वाञ्छितस्थानमार्ग दर्शयन्महोपकारी भवति इत्येवमिहापीति दर्शयन्नाह -मार्गसम्यग्दर्शनादिकं मोक्षपथं दयत इति मार्गदयः, यथा हि लोके चक्षुरुद्घाटनं मार्गदर्शनं च 1. 'नगरा: प्र.' इति पु. प्रे. पार्श्वभागे / / 2. कर० Bखं.।। 3. तत्संहि०खं.।। 4. ०ष वर एव पु० खं.।। ५.०न्यराज०खं.।।