________________ 34 श्री औपपातिकसूत्रम् अविषमरूपम् उपचितञ्च-मांसलं विस्तीर्णं पृथुलं च-अतिविशालं च वक्षः-उरो यस्य स तथा / 'सिरिवच्छंकियवच्छे' व्यक्तम् / वाचनान्तरे तु वक्षोविशेषणान्येवं दृश्यन्ते'उवचिय-पुरवरकवाड-वित्थिण्ण-पिहुल-वच्छे' उपचितं पुरवरकपाटवद्विस्तीर्णं पृथुलं च-अतिपृथु वक्षो यस्य स तथा, 'कणयसिलायलुज्जल-पसत्थ-समतल-सिरिवच्छरइय-वच्छे' पूर्ववन्नवरं श्रीवत्सेन रतिदं-रम्यमिति विशेषः / 'अकरंडुय-कणग-रुयगनिम्मल-सुजाय-निरुवहयदेहधारी' अकरण्डुकं-मांसलतयाऽनुपलक्ष्यमाणपृष्टिवंशास्थिकं, कनकस्येव रुचको-रुचिर्यस्य स तथा, तं च निर्मलं च सुजातं च निरुपहतं च-रोगोपहतिवर्जितं देहं धारयतीत्येवंशीलो यः स तथा / 'अट्ठसहस्सपडिपुण्णवरपुरिसलक्खणधरे'त्ति क्वचिद्देश्यते, अष्टसहस्रम्-अष्टोत्तरसहस्रं प्रतिपूर्णम्-अन्यूनं वरपुरुषलक्षणानां-स्वस्तिकादीनां धारयति यः स तथा / 'सण्णयपासे' अधोऽधःपार्श्वयोरवनतत्वात् 'संगयपासे' देहप्रमाणोचितपार्श्वः, अत एव 'सुंदरपासे 'त्ति व्यक्तं, 'सुजायपासे' सुनिष्पन्नपार्श्वः, 'मियमाइय-पीण-रइयपासे' मितमात्रिकौ-अत्यर्थं परिमाणवन्तौ पीनौ- उपचितौ रतिदौ-रम्यौ पाश्वौं-कक्षाधोदेशौ यस्य स तथा / 'उज्जुय-सम-संहिय-जच्च-तणु-कसिण-निद्धआएज्ज-लडह-रमणिज्ज-रोमराई' ऋजुकानाम्-अवक्राणां समानाम्-अविषमाणां संहितानां-संहतानां जात्यानां-प्रधानानां तनूनां-सूक्ष्माणां कृष्णानां-कालानां स्निग्धानाम्-अरूक्षाणाम् आदेयानाम्-उपादेयानां लडहानां-सलावण्यानाम् अत एव रमणीयानां च-रम्याणां रोम्णां-तनूरुहाणां राजिः-पङ्क्तिर्यस्य स तथा / 'झस-विहग-सुजाय-पीण-कुच्छी' मत्स्य-पक्षिणोरिव सुजातौ-सुनिष्पन्नौ पीनौ-उपचितौ कुक्षी-उदरदेशविशेषौ यस्य स तथा / झसोदरे सुइकरणे गंगावत्तग-पयाहिणावत्त-तरंगभंगुर-रविकिरणतरुण-बोहितअकोसायंत-पउम-गंभीरवियडनाभे साहय-सोणंद-मुसल-दप्पण-निग-रितवरकणगच्छरु-सरिस-वरवइरवलितमज्झे पमुदित-वर-तुरग-सीहवर-वट्टियकडी वरतुरग-सुजाय-गुज्झदेसे आइन्नहउव्व निरुवलेवे, वरवारणतुल्ल विक्कमविलसितगती 'झसोदरे'त्ति व्यक्तम् / 'सुइकरणे' शुचीन्द्रियः / ‘झषोदरपद्मविकटनाभि' इति पाठान्तरम् / 'गङ्गावत्तक-पयाहिणावत्त-तरंगभंगुर-रविकिरणतरुण-बोहिय-अकोसायंत-पउम-गंभीर-वियडनाहे' गङ्गावर्तक इव प्रदक्षिणावर्ता तरङ्गैरिव-वीचिभिरिव 1. पुप्रे अपि दृश्यन्ते / 2. B खं. / ०पृष्ठवं० मु. // 3. ०साजंत० B || 4. BI ०वर्तत० मु. //