________________ 290 शोभनस्तुति-वृत्तिमाला सहिता ‘सकलकला' / एतावता मधुरध्वनिना तीर्थकरगुणगायिनीत्यर्थः / पुनः किंविशिष्टा सुरावलिः ? / 'कला' प्रधाना | इति पदार्थः / / अथ समासः-समन्तादिति समन्ततः / समवसरणस्य भूमिः समवसरणभूमिः, तस्यां समवसरणभूमौ / सुराणामावलिः सुरावलिः / सकलाश्च ताः कलाश्च सकलकलाः, सकलकलानां कलापः सकलकलाकलापः, सकलकलाकलापेन कलिता सकलकलाकलापकलिता / अपगतो मदो यस्याः सा अपमदा / अरुणाः करा यस्य सः अरुणकरः, तमरुणकरम् / न पापं अपापं, अपापं ददातीति अपापदः, तमपापदम् / जिनानां राजानो जिनराजाः, जिनराजानां विसरो जिनराजविसरः, तं जिनराजविसरम् / जन्म च जरा च जन्मजरसी, उज्जासिते जन्मजरसी यस्मात् स उज्जासितजन्मजरः, तं उज्जासितजन्मजरम् / कलश्चासौ कलश्च कलकलः, कलकलेन सहिता सकलकला / कलिश्च तापश्च कलितापौ, यद्वा कलेस्तापः कलितापः, अपगतः कलितापो यस्य सः अकलितापः, तं अकलितापम् / न दारुणं अदारुणं, अदारुणं करोतीति अदारुणकरः, तं अदारुणकरम् / अपगता आपद् यस्मात् सः अपापत्, तं अपापदम् / / इति द्वितीयवृत्तार्थः / / 70 / / दे० व्या०-स्तौतीति / तं जिनराजविसरं-तीर्थंकरसमूहमहं नमामि-नमस्कारविषयीकरोमीत्यन्वयः / ‘णम नमने' धातुः / 'नमामि' इति क्रियापदम् / कः कर्ता ? अहम् / कं कर्मतापन्नम् ? / जिनराजविसरम् / “सन्दोहः समुदायराशिविसरवाताःकलापो व्रजः” इत्यभिधानचिन्तामणिः (का० 6, श्लो० 47) / किंविशिष्टं जिनराजविसरम् ? | ‘उज्जासितजन्मजरं' जननं-जन्म जरा-विस्रसा अनयोः 'द्वन्द्वः', ततः उज्जासिते-नाशिते जन्मजरे येन स तम् / “प्रोज्जासनं प्रशमनं प्रतिघातनं वधः” इत्यभिधानचिन्तामणिः (का० 3, श्लो० 34) / पुनः किंविशिष्टम् ? / 'अरुणकरं' अरुणौ-रक्तौ करौहस्तौ यस्य स तम् / पुनः किंविशिष्टम् ? / 'अपकलितापं' अपगतः कलेः-कलिकालस्य कलहस्य वा तापः-सन्तापो यस्माद् यस्य वा स तम् / पुनः किंविशिष्टम् ? / 'अदारुणकरं' दारुणं-रौद्रं तन्न करोतीत्यदारुणकरस्तम् / रुद्रकर्माकारकमित्यर्थः / यद्वा नास्ति दारुणा-रुद्रा करा-प्रभा यस्य स तम् / पुनः किंविशिष्टम् ? / 'अपापदं' पापं न दत्ते इत्यपापदस्तम्, पुण्यप्रदमित्यर्थः / यत्तदोर्नित्याभिसम्बन्धाद् यं जिनराजविसरं 'सुरावलिः' सुराणां-देवानामावलिः-श्रेणिः समन्ततः-सर्वदिक्तः समवसरणभूमौ स्तौति स्म-अस्तवीत् / ‘स्तुञ् स्तुतौ' धातुः / 'स्तौति स्म' इति क्रियापदम् / का की ? / सुरावलिः / कं कर्मतापन्नम् ? / जिनराजविसरम् / कस्याम् ? | ‘समवसरणभूमौ' समवसरणस्य-वप्रत्रयस्य भूमिःभूमिका तस्याम् / कथम् ? | समन्ततः / अव्ययमेतत् / किंविशिष्टा सुरावलिः ? / 'सकलकलाकलापकलिता' सकला-समस्ता या कला-विज्ञानं तस्याः कलापः-समूहः तेन कलिता-व्याप्ता / पुनः