________________ श्रीअरजिनस्तुतयः 291 किंविशिष्टा ? | ‘अपापत्' अपगता आपद्-विपत्तिर्यस्याः सा तथा / जिनराजविसरविशेषणमेतदिति कश्चित् तच्चिन्त्यम् / पुनः किंविशिष्टा ? ।'अपमदा' अपगतो मदो यस्याः सा तथा / “मदो मुन्मोहसंभेद:” इत्यभिधानचिन्तामणिः (का० 2, श्लो० 226) / पुनः किंविशिष्टा ? / कला-मनोहरा / / इति द्वितीयवृत्तार्थः / / 70 // ध० टीका-स्तौतीति / 'स्तौति' वन्दते / 'समन्ततः' सर्वतः / ‘स्म' इति अतीतार्थद्योतको निपातः / 'समवसरणभूमौ' समवसृतिक्षितौ / 'यम्' / 'सुरावलिः' त्रिदशमाला / 'सकलकलाकलापकलिता' सकलेन-समग्रेण कलाकलापेन-विज्ञानकदम्बकेन कलिता-युक्ता / ‘अपमदा' अपेतदर्पा / 'अरुणकरं' आताम्रपाणिम् / ‘अपापदं' अपगतविपदम् / 'तम्' / 'जिनराजविसरं' जिनेन्द्रवृन्दम् / 'उज्जासितजन्मजरं' उज्जासितजननविससम् / ‘नमाम्यहं' नतोऽस्मि ! 'सकलकला' सकोलाहला / 'कला' मधुरा / अपकलितापं' अपगतकलहसन्तापम् / अदारुणकरं' अदारुणं-अरौद्रं करोति यस्तम् / “अपापदं' अपाप-पुण्यं तत्प्रदम् / यं समवसरणभूमौ सुरावलिः स्तौति स्म तं जिनराजविसरं नमाम्यहं इत्यन्वयः / / 70 / / . (6) __ अवचूरिः . सुरेन्द्रश्रेणी यं जिनेन्द्रव्यूहं स्तौति / समन्ततः-सर्वतः / स्मेत्यतीतार्थकम् / समवसरणभूमौ / किंभूता ? / सकलाः-समस्ताः कला-विज्ञानानि तासां कलापेन-समूहेन कलिता-सहिता / अपमदाअपगतमदा / सह कलकलेन-कोलाहलेन वर्तते / कला-मधुरा / तंजिनेन्द्रविसरमहं नमामि / किंविशिष्टम् ? / अरुणौ-आरक्तौ करी-हस्तौ यस्य / अपगता आपदो यस्मात् तम् / विनाशितजन्मजरम् / अपकलितापम्अपगतकलहसन्तापम् / अदारुणम्-अरौद्रं करोतीति तम् / अपाप-पुण्यं ददातीति तम् / / 70 / / जिनागमाय नमःभीममहाभवाब्धिभवभीतिविभेदि परास्तविस्फुरत् परमतमोहमानमतनूनमलं घनमघवतेऽहितम् / जिनपतिमतमपारमामरनिर्वृतिशर्मकारणं परमतमोहमानमत नूनमलङ्घनमघवतेहितम् // 3 // 71 // - द्विपदी