________________ 292 शोभनस्तुति-वृत्तिमाला (1) ज० वि०-भीमेति / भो भव्याः ! यूयं जिनपतिमतं-सर्वज्ञप्रवचनं नूनं-निश्चयेन आनमत-प्रणमत इति क्रियाकारकयोजना / 'आनमत' इति क्रियापदम् / के कर्तारः ? 'यूयम्' / किं कर्मतापन्नम् ? 'जिनपतिमतम्' / जिनपतिमतं कथंभूतम् ? 'भीममहाभवाब्धिभवभीतिविभेदि' भीमो-भयङ्करः यो (महान्) भवाब्धिः-संसारसागरस्तत्र भवा या भीतयः-भियस्तासां विभेदि-भेदनशीलम् / पुनः कथं० ? ‘परास्तविस्फुरत्परमतमोहमानं' परमतानि-अन्यप्रवचनानि मोहो-मिथ्यात्वं मानः-अहङ्कारः, परास्तानिक्षिप्ता विस्फुरन्तः-विजृम्भमाणा परमतमोहमाना येन तत् तथा तत् / अथवा विस्फुरन् परमतानां 'मोहमानः' मोहाद्-अज्ञानाद् मानः-मिथ्याभिमानः स ‘परास्तः' परं प्रकृष्टं यथा स्यात् तथा अस्तो.येन तथा तत् / पुनः कथं० ? 'अतनूनं' तनु-कृशं ऊनं चशब्दार्थादिभिऍनं यन्न भवति तत् / पुनः कथं० ? 'घन' निबिडं, प्रमेयगाढमित्यर्थः / कथं ? 'अलं' अत्यर्थम् / पुनः कथं० ? अहितं' न श्रेयस्कारि / कस्मिन् ? 'अघवते' पापान्विताय / पुनः कथं ? 'अपारमामरनिर्वृतिशर्मकारणम्' अपाराणिअपर्यन्तानि यानि मामराणां निर्वृतेः-निर्वाणस्य शर्माणि-सुखानि तेषां कारणं-हेतुः / पुनः कथं० ? ‘परमतमोहं' परम-प्रकष्टं तमो हन्ति यत् तत् / यदिवा अतिशयेन परमाः-परमतमा ऊहा-विचारणा यस्मिन् तत् तथा तत् / पुनः कथं० ? ईहितम्' अभिलषितम् / केन ? 'अलङ्घनमघवता' नास्ति लङ्घनम्-अभिभवो यस्य तेन मघवता-इन्द्रेण, सामर्थ्यादच्युतस्वर्गनाथेन || ___ अथ समासः-अब्धिरिवाब्धिः / भवश्वासावब्धिश्च भवाब्धिः ‘कर्मधारयः' / महांश्चासौ भवाब्धिश्च महा० 'कर्मधारयः' / भीमश्चासौ महाभवाब्धिश्च भीम० 'कर्मधारयः' / भीममहाभवाब्धेर्भवा भीमम० 'तत्पुरुषः' / भीममहाब्धिभवाश्च ता भीतयश्च भीम० 'कर्मधारयः / भीममहाभवाब्धिभवभीतीनां विभेदि भीमम० 'तत्पुरुषः' / तत् भीमम० / परेषां मतानि परमतानि तत्पुरुषः' / परमतानि च मोहश्च मानश्च परमत० 'इतरेतरद्वन्द्वः' / विस्फुरन्तश्च ते परमतमोहमानाश्च विस्फु० 'कर्मधारयः' / परास्ता विस्फुरत्परमतमोहमाना येन तत् परास्त० ‘बहुव्रीहिः' / अथवा मोहाद् मानो मोहमानः 'तत्पुरुषः' / परमतानां मोहमानः परमत० 'तत्पुरुषः' / विस्फुरंश्चासौ परमतमोहमानश्च विस्फु० 'कर्मधारयः' / परं स्तः परास्तः 'तत्पुरुषः' / परास्तो विस्फुरत्परमतमोहमानो येन तत् परास्त० 'बहुव्रीहिः' / (तत् परास्त०) / तनु च तदूनं च तनूनं 'कर्मधारयः' / न तनूनं अतनूनं 'तत्पुरुषः' / तद् अतनूनम् / न हितं अहितं 'तत्पुरुषः' / तद् अहितम् / जिनानां जिनेषु वा पतिः जिनपतिः 'तत्पुरुषः' / जिनपतेर्मतं जिनप० 'तत्पुरुषः' / तद् जिन० / माश्च अमराश्च मामराः ‘इतरेतरद्वन्द्वः' ! निवृतेः शर्माणि निर्वृतिशर्माणि 'तत्पुरुषः' / मामराणां निर्वृतिशर्माणि मा० 'तत्पुरुषः' / न विद्यते पारो येषां