________________ श्रीअरजिनस्तुतयः 293 तान्यपाराणि 'बहुव्रीहिः' / अपाराणि च तानि मामरनिर्वृतिशर्माणि च अपार० 'कर्मधारयः' / अपारमामरनिर्वृतिशर्मणां कारणं अपार० तत्पुरुषः / तदपारमा० / परमं च तत् तमश्च परम० 'कर्मधारयः' / परमतमो हन्तीति परम० 'तत्पुरुषः' / तत् परम० / यदिवा परमतमा ऊहा यस्मिन् तत् परम० 'बहुव्रीहिः' / तत् परम० / न विद्यते लङ्घनं यस्य सः अलङ्घनः ‘बहुव्रीहिः' / अलङ्घनश्चासौ मघवांश्च अलङ्घन० 'कर्मधारयः' / तेनालङ्घन० / / इति काव्यार्थः / / 71 / / (2) सि० वृ०-भीमेति / भो भव्यलोकाः ! यूयं जिनपतिमतं-तीर्थेशप्रवचनं नूनं-निश्चयेन आनमतप्रणमतेत्यर्थः / आङपूर्वक ‘णम प्रहीभावे' धातोः ‘आशी:प्रेरणयोः' (सा० सू०७०३) कर्तरि परस्मैपदे मध्यमपुरुषबहुवचनम् / अत्र ‘आनमत' इति क्रियापदम् / के कर्तारः ? / यूयम् / किं कर्मतापन्नम् ? | 'जिनपतिमतं' जिनपतेर्मतं जिनपतिमतं इति 'तत्पुरुषः' / कथंभूतं जिनपतिमतम् ? / 'भीममहाभवाब्धिभवभीतिविभेदि' भीमो-भयङ्करो यो भव एव अब्धिः भवाब्धिः-संसारसागरः तत्र भवा या भीतयो-भियस्तासां विभेदि-भेदनशीलम् / पुनः कथंभूतम् ? / 'परास्तविस्फुरत्परमतमोहमानम्' परेषांबौद्धादीनां मतानि परमतानि, अन्यप्रवचनानीत्यर्थः, मोहो-मिथ्यात्वं मानः-अभिमानः, परमतानि च मोहश्च मानश्च परमतमोहमानाः ‘इतरेतरद्वन्द्वः', परास्ता-दूरीकृताः विस्फुरन्तो-विजृम्भमाणाः परमतमोहमाना येन तत् तथा तत् / पुनः कथंभूतम् ? | ‘अतनूनम्' तनु च ऊनं च यन्न भवतीति अतनूनम् / पुनः कथंभूतम् ? / घनं-निबिडं, प्रमेयगाढमित्यर्थः / कथम् ? / अलम्-अत्यर्थम् / पुनः कथंभूतम् ? / अहितं-न श्रेयस्कारि / कस्मै ? / 'अघवते' अघं-पापं विद्यते यस्य स अघवान् तस्मै / पुनः कथंभूतम् ? / 'अपारमामरनिर्वृतिशर्मकारणम्' माश्च अमराश्च मर्त्यामराः ‘इतरेतरद्वन्द्वः', अपाराणि-पाररहितानि अमर्यादानीत्यर्थः यानि मामराणां निर्वृतेः-निर्वाणस्य शर्माणि-सुखानि तेषां कारणं-हेतुः (तत्), तत्त्वज्ञानद्वारा मुक्तिसुखजनकत्वात् / पुनः कथंभूतम् ? / ‘परमतमोहं' परमं-प्रकृष्टं तमो हन्ति यत् तत् / अथवा अतिशयेन परमाः-परमतमाः ऊहा-विचारणा यस्मिन् तत् तथा तत् / पुनः कथंभूतम् ? / ईहितं-अभिलषितम् / केन ? / 'अलङ्घनमघवता' नास्ति लङ्घनं-अभिभवो यस्य तादृशेन मघवताइन्द्रेण, सामर्थ्यादच्युतस्वर्गनाथेनेत्यर्थः / अलङ्घनश्चासौ मघवा चेति ‘कर्मधारयः' / / 71 / / (3) सौ० वृ०-भीमेति / भो भव्याः ! यूयं जिनपतिमतं-तीर्थकरप्रवचनम् आनमतेत्यन्वयः / 'आनमत' इति क्रियापदम् / के कर्तारः ? / 'यूयम्' / 'आनमत' प्रणमत / किं कर्मतापन्नम् ? | 'जिनपतिमतम्' / भीमो-रौद्रो [महा-] महान् यो भवाब्धिः-(संसार)समुद्रः तस्माद् भवा-उत्पन्नाः या