________________ 294 शोभनस्तुति-वृत्तिमाला भीतयो-भयाः तान् भिनत्तीति तद् ‘भीममहाभवाब्धिभवभीतिविभेदि' / पुनः किंविशिष्टं जिनपतिमतम् ? / परास्ताः-तिरस्कृताः विस्फुरन्तो-दीप्यन्तो-झगझगायमानाः परेषां-कुतीर्थानां मतानि-शासनानि मोहः-अज्ञानं तथा (यद्वा ?) मोहाद्-अज्ञानात् माना-गर्वा येन तत् ‘परास्तविस्फुरत्परमतमोहमानम्' / पुनः किंविशिष्टं जिनपतिमतम् ? / 'घन' निबिडम् / कथम् ? / 'अलम्' अत्यर्थम्, अप्रमेयप्रमेयमित्यर्थः / पुनः किंविशिष्टं जिनपतिमतम् ? / तनु-कृशं ऊन-न्यूनं तवयं न इति 'अतनूनम्' / एतावता महत्, सम्पूर्णमित्यर्थः / पुनः किंविशिष्टं जिनपतिमतम् ? / अपारा-अनेके मा-मनुष्याः अमरा-देवाः तेषां निर्वृतिः-मोक्षस्तस्याः शर्माणि-सुखानि तेषां कारणं-हेतुः (तत्) अपारमामरनिर्वृतिशर्मकारणम्' / किविशिष्टं जिनपतिमतम् ? / परमं-प्रकृष्टं तमः-अज्ञानं तत् प्रति हन्तीति ‘परमतमोहम्', यद्वा परमतमः-उत्कृष्टः ऊहो-वितर्को यस्मिंस्तत् परमतमोहम् / पुनः किंविशिष्टं जिनपतिमतम् ? / 'ईहितं' वाञ्छितम् / केन ? | अलङ्घनः-अनुल्लङ्घनीयो मघवा-इन्द्रः तेन 'अलङ्घनमघवता', अच्युतेन्द्रेण ईप्सि(हि)त-वाञ्छितम् / एवंविधं जिनपतिमतं नूनं-निश्चितं आनमत / / इति पदार्थः / / अथ समासः-आपो निधीयन्ते यस्मिन् स अब्धिः, भव एवाब्धिः भवाब्धिः, महांश्चासौ भवाब्धिश्च महाभवाब्धिः, भीमश्चासौ महाभवाब्धिश्च भीममहाभवाब्धिः, भीममहाभवाब्धेर्भवा भीममहाभवाब्धिभवाः, भीममहाभवाब्धिभवाश्च ता भीतयश्च भीममहाभवाब्धिभवभीतयः, विशेषेण भेदितुं शीलमस्यास्तीति विभेदि, भीममहाभवाब्धिभवभीतानां विभेदि, यद्वा भीममहाभवाब्धिभवा भीश्च ईतयश्च भीममहाभवाब्धि(भव)भीतयः इत्यपि / परेषां मतं परमतं, विस्फुरच्च तत् परमतं च विस्फुरत्परमतं, विस्फुरत्परमतस्य मोहः विस्फुरत्परमतमोहः, विस्फुरत्परमतमोहश्च मानश्च विस्फुरत्परमतमोहमानः, परास्तो-ध्वस्तः विस्फुरत्परमतमोहमानो येन तत् परास्तविस्फुरत्परमतमोहमानं तत् / तनु च ऊनं च तनूने, न स्तः तनूने यस्मिन् तद् अतनूनम् / अघं विद्यते यस्यासौ अघवान्, तस्मै अघवते / न हितं अहितं, तद् अहितम् / जिनानां पतिः जिनपतिः, तस्य मतं जिनपतिमतं, तत् जिनपतिमतम् / माश्च अमराश्च मर्त्यामराः, अपाराश्च ते मामराश्च अपारमामराः, अपारमामराणां निर्वृतिः अपारमर्त्यामरनिर्वृतिः, अपारमामरनिर्वृतेः शर्माणि अपारम-मरनिर्वृतिशर्माणि, अपारमामरनिर्वृतिशर्मणां कारणं अपारमामरनिर्वृतिशर्मकारणम् / परमं च तत् तमश्च परमतमः, परमतमो हन्तीति परमतमोहं, यद्वा ‘अतिशयेन परमाः परमतमाः, परमतमा ऊहा यस्मिन् तत् परमतमोहम् / लझ्यते-उल्लङ्घयते इति लङ्घनः, न लङ्घनः अलङ्घनः, अलङ्घनश्चासौ मघवा च अलङ्घनमघवा, तेन अलङ्घनमघवता / इति तृतीयवृत्तार्थः / / 71 / /