________________ श्रीअरजिनस्तुतयः 295 दे० व्या०-भीमेति / हे भव्यजनाः ! यूयं जिनपतिमतं-प्रवचनं नूनं-निश्चितं आनमतप्रणमतेत्यन्वयः / ‘णम प्रहीभावे' धातुः / 'आनमत' इति क्रियापदम् / के कर्तारः ? / यूयम् / किं कर्मतापन्नम् ? / जिनपतिमतं-तीर्थंकरमतम् / किंविशिष्टं जिनपतिमतम् ? / 'भीममहाभवाब्धिभवभीतिविभेदि' भीमः-भयोत्पादको रुद्र इति यावद् यो महाभवाब्धिः-प्रकृष्टसंसारसमुद्रः तस्मिन् भवाउत्पन्ना या भीतिः-साध्वसंतस्या विभेदि-भेदनशीलम् / पुनः किंविशिष्टम् ? / परास्तविस्फुरत्परमतमोहमानं' विस्फुरन्तश्च ते परमतमोहमानाश्चेति पूर्वं कर्मधारयः', परमतं-बौद्धादिशासनं मोहः-अज्ञानं मानः-स्मयः एतेषां पूर्व 'द्वन्द्वः', ततः परास्ता-विध्वस्ताः(विस्फुरत्)परमतमोहमाना येन तत् / पुनः किंविशिष्टम् ? / 'अतनूनं' तनु-स्वल्पं. ऊनं-अपूर्णं, अर्थापेक्षया ताभ्यां रहितम् / पुनः किंविशिष्टम् ? / अलङ्घनंकेनाप्यनतिक्रमणीयम् / पुनः किंविशिष्टम् ? अहितं-अपथ्यम् / कस्मै ? / 'अघवते' अघं-पापं विद्यते यस्यासौ अघवान् तस्मै / पुनः किंविशिष्टम् ? / 'अपारमामरनिर्वृतिशर्मकारणं' माश्च ते अमराश्चेति पूर्वं 'द्वन्द्वः', निर्वृतेः शर्माणि निवृतिशर्माणि इति 'षष्ठीतत्पुरुषः', ततः अपाराणि च तानि मामरनिर्वृतिशर्माणि चेति 'कर्मधारयः', तेषां कारणं-हेतुभूतम्, तत्त्वज्ञानद्वारा मुक्तिसुखजनकत्वात् / पुनः किंविशिष्टम् ? | ‘परमतमोह' परमं-प्रकृष्टं यत् तमः-अज्ञानं तस्य हन्तृ-नाशकम् / यद्वा परमतमा• अत्युत्कृष्टा ऊहाः-तर्काः यत्र तत् / पुनः किंविशिष्टम् ? / 'अलङ्घनमघवतेहितं' अलङ्घनः- अनतिक्रमणीयो यो मघवा-इन्द्रः तेन ईहितं-वाञ्छितम् / / इति तृतीयवृत्तार्थः / / 71 / / .. ध० टीका-भीमेति / 'भीममहाभवाब्धिभवभीतिविभेदि' भीमे महाभवाब्धौ भवन्ति भीतयो यास्तासां विभेदि-भेदनशीलम् / ‘परास्तविस्फुरत्परमतमोहमानं' परास्तानि-क्षिप्तानि विस्फुरन्ति परमतानि मोहश्च मानश्च येन तम्, अथवा मोहात्-अज्ञानात् मानो मोहमानो-मिथ्याभिमानः परं-प्रकृष्टं विस्फुरत् यथा भवत्येवं अस्तः परमतानां मोहमानो येन तम् / ‘अतनूनं' तनु च ऊनं च यन्न भवति / . 'अलं' अत्यर्थम् / 'घनं' निबिडं प्रमेयगाढम् / ‘अघवते' पापान्विताय / ‘हितं' श्रेयस्कारि / 'जिनपतिमतं' सर्वज्ञप्रवचनम् / 'अपारमामरनिर्वृतिशर्मकारणं' अपाराणि-अपर्यन्तानि यानि मर्त्यानां अमराणां निर्वृतेश्च-निर्वाणस्य सम्बन्धीनि शर्माणि-सुखानि तेषां कारणं-हेतुः / ‘परमतमोहं' परमं तमो हन्ति यत् तत्, अथवा परमतमा-अतिशयेन परमा ऊहाः-तर्का यत्र तत् / 'आनमत' प्रणमत / 'नूनं' निश्चयेन / 'अलङ्घनमघवता' नास्ति लङ्घनं-अभिभवो यस्य तेन मघवता-महेन्द्रेण, सामर्थ्यादच्युतस्वर्गनाथेन / 'ईहितं' अभिलषितम् / जिनपतिमतं आनमतेति सम्बन्धः / / 71 / /