________________ 296 शोभनस्तुति-वृत्तिमाला (6) अवचूरिः भीषणमहासंसारसमुद्रोत्पन्नभयविदारकम् / परास्ताः-परिक्षिप्ता विस्फुरन्तः परमतमोहमाना येन / यद्वा मोहाद्-अज्ञानान्मानो-मिथ्याभिनिवेशः परमतानां मोहमानौ वा / तनु-तुच्छमूनम्-अपूर्णं च न / अलम्-अत्यर्थं घनं-निबिडं प्रमेयगाढम् / अघवते-पापिने अहितं-न श्रेयस्कारि / अपाराण्यपर्यन्तानि मानाममराणां निर्वाणस्य शर्माणि तेषां कारणम् / परमं तमो हन्ति / यद्वा परमतमा ऊहा यस्मिन् / आनमत-प्रणमत / नूनं-निश्चितम् / नलङ्घनम्-अभिभवो यस्य स चासौ मघवा च तेन सामर्थ्यादच्युतनाथेन ईहितम्-अभिलषितम् / / 71 / / श्रीचक्रधरायाः स्तुतिःयाऽत्र विचित्रवर्णविनतात्मजपृष्ठमधिष्ठिता हुतात् समतनुभागविकृतधीरसमदवैरिव धामहारिभिः / तडिदिव भाति सान्ध्यघनमूर्धनि चक्रधराऽस्तु मुदे___ऽसमतनुभा गवि कृतधीरसमदवैरिवधा महारिभिः // 4 // 72 // - द्विपदी ज० वि०-याऽत्रेति / सा चक्रधरा-अप्रतिचक्रा देवी मुदे-प्रीत्ये अस्तु-भवतु इति क्रियाकारकसम्बन्धः / अत्र ‘अस्तु' इति क्रियापदम् / का की ? 'चक्रधरा' / कस्यै ? 'मुदे' / सेति तच्छब्दसाहचर्याद्यच्छब्दयोजनामाह-या चक्रधरा अत्र-अस्मिञ्जगति भाति-शोभते / अत्रापि भाति' इति क्रियापदम् / का की ? 'या' / कुत्र ? 'अत्र' | या कथंभूता ? 'अधिष्ठिता' अधिरूढा / किं कर्मतापन्नम् ? 'विचित्रवर्णविनतात्मजपृष्ठं विचित्रवर्णो-नानाविधवर्णसहितः, “आजानु कनकगौरम् आनाभेः शकुन्दहरधवलम्, आकण्ठतो नवदिवाकरकान्तितुल्यम्, आमूर्धतोऽअननिभं गरुडस्वरूपम्” इति स्वरूपो यो विनतात्मजो-गरुत्मान् तस्य पृष्ठं-गात्रोपरिभागम् / पुनः कथं० ? 'हुतात्समतनुभाक्' हुतं अत्तीति हुतात्-वहिस्तेन समां-तुल्यां मूर्तिं भजतीति हुतात्समतनुभाक् / कस्मिन् केव भाति ? 'सान्ध्यघनमूर्णि' सान्ध्यः-सन्ध्यासम्बन्धी यो घनः-मेघः स च विचित्रवर्णो भवति तस्य मूर्ध्नि-शिरसि 1. अयं पाठः श्रीसौभाग्यसागरकृतवृत्त्यामेव /