________________ श्रीअरजिनस्तुतयः 297 'तडिदिव' विद्युदिव / अत्र चक्रधरा तडित्स्थानीया, गरुडो घनस्थानीय इति ज्ञेयम् / पुनः कथंभूता चक्रधरा ? 'अविकृतधीः' अविकृता-न विकारं प्राप्ता धी:-बुद्धिर्यस्याः सा तथा / पुनः कथं० ? 'असमतनुभा' समा-सामान्या तनुः-कृशा, न समतनुः असमतनुः, असाधारणमहतीत्यर्थः, एतादृशी भाकान्तिर्यस्याः सा तथा / कस्याम् ? 'गवि' पृथिव्यां स्वर्गे वा / पुनः कथं० ? 'कृतधीरसमदवैरिवधा' कृतः-विहितः धीराणां-शूराणां समदानां-मदान्वितानां वैरिणां-रिपूणां वधः-विनाशो यया सा तथा / कैः कृत्वा ? ('महारिभिः') महद्भिः-बृहद्भिररिभिः चक्रैः / कथंभूतैः ? 'धामहारिभिः' धामभिः-तेजोभिः हारिभिः-कान्तैः / कैरिव ? 'असमदवैरिव' असमैः-असदृशैः दवैः-वनवहिभिरिव / / अथ समासः-विचित्रो वर्णो यस्य स विचित्र० 'बहुवीहिः' / विनतायाश्चात्मजो विनतात्मजः 'तत्पुरुषः' / विचित्रवर्णश्चासौ विनतात्मजश्च विचित्र० 'कर्मधारयः' / विचित्रवर्णविनतात्मजस्य पृष्ठं विचित्र० 'तत्पुरुषः' / (तद् विचित्र०) / हुतमत्तीति हुतात् 'तत्पुरुषः' / हुताद: समा हुतात्समा 'तत्पुरुषः' / हुतात्समा चासौ तनुश्च हुता० 'कर्मधारयः' / हुतात्समतनुं भजत इति हुता० 'तत्पुरुषः' / न विकृता अविकृता 'तत्पुरुषः' / अविकृता धीर्यस्याः सा अविकृतधीः ‘बहुव्रीहिः' / (न समा असमाः 'तत्पुरुषः') / असमाश्च ते दवाश्च असम० 'कर्मधारयः' / तैरसम० / धामभिर्हारीणि धाम० 'तत्पुरुषः' / तैर्धाम० / सन्ध्यायां भव० सान्ध्यः ('तत्पुरुषः') / सान्ध्यश्चासौ घनश्च सान्ध्यघनः ‘कर्मधारयः' / सान्ध्यघनस्य मूर्धा सान्ध्य० 'तत्पुरुषः' / असमतनुः भा यस्याः सा असम० 'बहुव्रीहिः' / धीराश्च ते समदाश्च धीरसमदाः ‘कर्मधारयः' / धीरसमदाश्च ते वैरिणश्च धीर० 'कर्मधारयः' / धीरसमदवैरिणां वधो धीर० 'तत्पुरुषः' / कृतो धीरसमदवैरिवधो यया सा कृतधीर० ('बहुव्रीहिः') / महान्ति च तान्यरीणि च महारीणि ‘कर्मधारयः' / तैर्महारिभिः / / इति काव्यार्थः / / 72 / / इति श्रीमद्धपण्डितश्रीदेवविजयगणिशिष्यपं०जयविजयगणिविरचितायां श्रीशोभनस्तुतिवृत्तौ श्रीअरजिनस्य स्तुतेर्व्याख्या / / 4 / 18 / 72 // (2) सि० वृ०-याऽत्रेति / सा 'चक्रधरा' धरतीति धरा चक्रस्य धरा (?) अप्रतिचक्रा देवी मुदे-प्रीत्यै अस्तु-भवत्वित्यर्थः / ‘अस् भुवि' धातोः ‘आशीःप्रेरणयोः' (सा० सू० 703) कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं तुप् / 'अप्०' (सा० सू० 691), 'अदादेः' (सा० सू० 880) इति लुक् / अत्र 'अस्तु' इति क्रियापदम् / का कर्जी ? / चक्रधरा / कस्यै ? / मुदे / सेति तच्छब्दस्य यच्छब्दसाहचर्यात् सा का ? | या चक्रधरा अत्र-अस्मिन् जगति भाति-शोभते इत्यर्थः / 'भा दीप्तौ' इति धातोः वर्तमाने कर्तरि परस्मैपदे प्रथमपुरुषैकवचनम् / अत्र ‘भाति' इति क्रियापदम् / का की ? | या / कुत्र ? /