________________ 298 शोभनस्तुति-वृत्तिमाला अत्र / कथंभूता ? / अधिष्ठिता-आरूढा / किम् ? / 'विचित्रवर्णविनतात्मजपृष्ठम्' विचित्रा वर्णा यस्मिन् स विचित्रवर्णः, कर्बुर इत्यर्थः / “आजानु कनकगौरम्, आनाभेः शङ्खकुन्दहरधवलम्, आकण्ठतो नवदिवाकरकान्तितुल्यम्, आमूर्धतोऽअननिभं गरुडस्वरूपम्” इति स्वरूपो यो विनतात्मजो-यो गरुड़: तस्य पृष्ठं पश्चादागस्तत् / “पृष्ठंतु चरमं तनोः” इति हैमः (का० 3, श्लो०२६५) / पुनः कथंभूता ? / 'हुतात्समतनुभाक' हुतं-होतव्यद्रव्यं अत्ति-भक्षतीति हुताद्-वह्निः तेन समां-तुल्यां तनु-मूर्तिं भजतीति हुतात्समतनुभाक् / कस्मिन् केव भातीति योज्यम् / सन्ध्यायां भवः; सान्ध्यः, सन्ध्यासम्बन्धीत्यर्थः, यो घनो मेघः स च विचित्रवर्णो भवति तस्य मूर्धनि-मस्तके, आधारे सप्तमी, तडिदिव-विधुदिव / यथा सान्ध्यघनशिरसि तडिद्भाति तथा देवी गरुडपृष्ठस्थिता शोभत इति भावः / पुनः कथंभूता चक्रधरा ? / 'अविकृतधीः' अविकृता-न विकारं प्राप्ता धी:-बुद्धिर्यस्याः सा / पुनः कथंभूता ? | ‘असमतनुभा' समासामान्या तनुः-कृशा, समा चासौ तनुश्चेति ‘कर्मधारयः', न समतनुरसमतनुरिति 'तत्पुरुषः', असाधारणमहतीत्यर्थः, एतादृशी भा-कान्तिर्यस्याः सा तथा / कस्याम् ? / गवि-पृथिव्यां स्वर्गे वा / "गौः स्वर्ग वृषभे रश्मी, वजे शीतकरे पुमान / अर्जुनीनेत्रदिग्बाण-भूवाग्वादिषु योषिति // " इति मेदिनी / पुनः कथंभूता ? | 'कृतधीरसमदवैरिवधा' कृतो-विहितो,धीराणां-सुराणां धैर्यवतां समदाना-मदसहितानां वैरिणां-रिपूणां वधो-विनाशो यया सा तथा / धीराश्च ते समदाश्च धीरसमदा इति 'कर्मधारयः' / कैः कृत्वा ? / 'महारिभिः' महान्ति च तानि अरीणि-चक्राणि च महारीणि तैः, बृहद्भिश्चरित्यर्थः / रथाङ्गं रथपादोऽरि, चक्रं धारा पुनः प्रधिः” इति हैमः (का० 3, श्लो० 419) / कथंभूतैः ? / 'धामहारिभिः' धाम्ना-तेजसा हारीणि-मनोज्ञानि तैः / कैरिव ? / 'असमदवैरिव' असमैःअसदृशैः दवैः-वनवहिभिरिवेत्युत्प्रेक्षा / अत्राभेदे रूपकम् / “दवदावौ वनवही” इत्यमरे हैमे (का० 4, श्लो० 167) च / न च समदवैः इत्यत्र समासे विभक्तिलोपः शंक्यः “इवेन नित्यं समासो विभक्त्यलोपश्च" इति वार्तिकात् / अत्रार्थ “वागर्थाविव संपृक्तौ, वागर्थप्रतिपत्तये” (स० 1, श्लो० 1) इति रघुरेवोदाहरणं द्रष्टव्यम् / / 72 / / // इति महोपाध्याय० श्रीअरजिनस्तुतेर्वृत्तिः // 4 / 18 / 72 // सौ० वृ०-याऽत्रेति / सा (चक्रधरा-) अप्रतिचक्रा देवी मुदे-प्रीत्ये अस्तु इत्यन्वयः / “अस्तु' इति क्रियापदम् / का की ? | 'सा' / 'अस्तु' भवतु / कस्यै ? | 'मुदे' / किंविशिष्टा सा ? | चक्रंनेमिं धरतीति 'चक्रधरा' / तच्छब्दो यच्छब्दमपेक्षते / सा का ? / या देवी अत्र-जगति भाति इत्यन्वयः /