________________ श्रीअरजिनस्तुतयः 299 ‘भाति' इति क्रियापदम् / का की ? | 'सा' / 'भाति' शोभते / कुत्र ? / 'अत्र' [जगति] / किंविशिष्टा या देवी ? | ‘अधिष्ठिता' आश्रिता / किं कर्मतापन्नम् ? / विचित्रो-विविधप्रकारो वर्णो यस्य सः तादृशो यो विनतात्मजो-गरुडः तस्य पृष्ठंमध्यभागः तत् ‘विचित्रवर्णविनतात्मजपृष्ठं', गरुडवाहनेत्यर्थः / “आजानु कनकगौरम्, आनाभेः शकुन्दहरधवलं” तथा “आकण्ठतो नवदिवाकरकान्तितुल्यम्, आमूर्धतोऽअननिभं गरुडस्वरूपम्” इति वचनात् / तथा "दितिर्माता च दैत्यानां, देवानामदितिस्तथा / विनता पक्षिणां माता, कद्रुः पन्नगमातरि // " इति मातृ-प्रकरणे / अतो विनतात्मजो-गरुडः / पुनः किंविशिष्टा या ? / समा-सदृशी तनु:शरीरं भजतीति समतनुभाक् / कस्मात् ? / 'हुतात्' हुतं अत्तीति हुताद्-वह्निः तत्समानेत्यर्थः / पुनः किंविशिष्टा या ? / अविकृता-अविकारिणी धीः-बुद्धिर्यस्याः सा ‘अविकृतधीः' / पुनः किंविशिष्टा या ? / असमा-अनन्यसदृशी तनुः-शरीरं तस्या भा-कान्तिर्यस्याः सा ‘असमतनुभा' / पुनः किंविशिष्टा या ? / कृतो-विहितो धीराः-युद्धे विकटाः मदेन सहिताः समदाः तादृशा ये वैरिणः-शत्रवः तेषां वधोहननं यया सा ‘कृतधीरसमदवैरिवधा' / कैः कृत्वा ? | महान्ति अरीणि-चक्राणि महारीणि तैः ‘महारिभिः', महच्चरित्यर्थः / किंविशिष्टैर्महारिभिः ? | धाम-तेजः तेन हारिभिः-मनोहरैः ‘धामहारिभिः' / दिवि का इव भाति ! / 'तडिद् (इव)' विद्युदिव भाति इव-यथा तद्वत् / सान्ध्यसमयोत्पन्नो यो घनो-मेघः तस्य मूर्धा-मस्तकं तस्मिन् सान्ध्यघनमूर्धनि यथा भाति इत्यन्वयः / 'भाति' इति क्रियापदम् / का की ? | 'तडित्' / 'भाति' शोभते / कस्मिन् ? / 'सान्ध्यघनमूर्धनि' / कैः कृत्वा ? | ‘धाम[हारि]भिः' किरणैः / धाम[हारि]भिः कैरिव ? / असमा-असदृशाः दवा-वनवह्नयः असमदवाः, तैः ‘असमदवैः' / अत्र 'तडित्स्थानीया देवी, सान्ध्यघनस्थानीयो गरुडः, धामस्थानीयं चक्रं, तद्वद् देवी भाति / कस्याम् ? / ‘गवि' स्वर्गे पृथिव्यां वा / एतादृशी देवी प्रीत्यै अस्तु / इति पदार्थः / / अथ समासः-विचित्रा वर्णा यस्मिन् स विचित्रवर्णः, विनतायाः आत्मजो विनतात्मजः, विचित्रवर्णश्चासौ विनतात्मजश्च विचित्रवर्णविनतात्मजः, विचित्रवर्णविनतात्मजस्य पृष्ठं विचित्रवर्णविनतात्मजपृष्ठं, तत् विचित्रवर्णविनतात्मजपृष्ठम् / समा च सा तनुश्च समतनुः, हुतात्समतनुः हुतात्समतनुः, हुतात्समतनुं भजतीति हुतात्समतनुभाक् / न अविकृता अविकृता, अविकृता धीर्यस्याः सा अविकृतधीः / न समा असमाः, असमाश्च ते दवाश्च असमदवाः, तैरसमदवैः / धामभिः हरन्तीत्येवंशीलानि धामहारीणि, तैः धामहारिभिः / सन्ध्यायां भवः सान्ध्यः, सान्ध्यश्चासौ घनश्च 1. अशुद्धं स्थलमिदम् / * 2. इदमप्यशुद्धम् /