________________ 300 शोभनस्तुति-वृत्तिमाला सान्ध्यघनः, सान्ध्यघनस्य मूर्धा सान्ध्यघनमूर्धा, तस्मिन् सान्ध्यघनमूर्धनि / चक्रं धरतीति चक्रधरा / असमाना (तनोः-) शरीरस्य भा-कान्तिर्यस्याः सा असमतनुभा / मदेन सहिताः समदाः, धीराश्च ते समदाश्च धीरसमदाः, धीरसमदाश्च ते वैरिणश्च धीरसमदवैरिणः, कृतो धीरसमदवैरिणां वधो यया सा कृतधीरसमदवैरिवधा / महान्ति च तानि अरीणि (च) [विद्यन्ते येषु तानि] महारीणि, तैः-महारिभिः / गवीति पदस्यार्थः "गौर्वजे सुवृषे धेनौ, वाचि दिग्बाणयोगिरि / भूमयूखसुखस्वर्गा-सत्यवन्यक्षिमातृषु // " इति महीपकोषः / इति चतुर्थवृत्तार्थः / / 72 / / अरनाथजिनेन्द्रस्य, स्तुतेरो लिपीकृतः / सौभाग्यसागराख्येण, सूरिणा ज्ञानसेविना // 1 // // इति श्रीअरनाथस्तुतिः सम्पूर्णा // 4 / 1872 // ___ (4) दे० व्या०-याऽत्रेति / सा चक्रधरा देवी मुदे अस्तु-भवतु इत्यन्वयः / ‘अस् भुवि' धातुः / 'अस्तु' / इति क्रियापदम् / का की ? | चक्रधरा देवी / कस्यै ? / मुदे-हर्षाय / “मुत्प्रीत्यामोदसंमो(म)दाः” इत्यभिधानचिन्तामणिः (का० 2, श्लो० 230) / किंविशिष्टा देवी ? / 'हुतात्समतनुभाक्' हुतं-होमद्रव्यं अत्ति-भक्षयतीति हुताद्-वह्निः तेन समां-सदृशां तनुं भजतीति हुतात्समतनुभाक् / पुनः किंविशिष्टा ?' 'अविकृतधीः' अविकृता-अविकारिणी धीः-बुद्धिः यस्याः सा तथा / पुनः किंविशिष्टा ? / 'असमतनुभा' चिन्त्यं (?) पदम् / पुनः किंविशिष्टा ? | ‘कृतधीरसमदवैरिवधा' धीराःधैर्यवन्तः समदा-मदेन सह वर्तमानाः, धीराश्च ते मदाश्चेति द्वन्द्वः', ततः कृतः-सम्पादितो धीरसमदवैरिणां वधो-विनाशो यया सा तथा / कस्याम् ? / 'गवि' गौः-पृथ्वी तस्याम् / “गौर्गोत्रा भूतधात्री क्ष्मा" इत्यभिधानचिन्तामणिः (का० 4, श्लो० 1) / यत्तदोर्नित्याभिसम्बन्धात् या चक्रधरा देवी अत्र-जगति महारिभिः-महच्चकैः भाति-शोभते / 'भा दीप्तौ' धातुः / ‘भाति' इति क्रियापदम् / का कर्जी ? / चक्रधरा देवी / कैः ? महारिभिः / रथाङ्गं रथपादोऽरि चक्रं धारा पुनः प्रधिः” इत्यभिधानचिन्तामणिः (का० 3, श्लो० 419) / किंविशिष्टा देवी ? / अधिष्ठिता-अध्यारूढा / किम् ? / 'विचित्रवर्णविनतात्मजपृष्ठं' विचित्रवर्णो यो विनतात्मजो-गरुडः तस्य पृष्ठं-पृष्ठप्रदेशम् / विचित्रः-कर्बुरो वर्णो यस्येति बहुव्रीहिः' / “कर्बुरश्चित्रला (लः)” इति पारस्करः / केव ? / 'तडिदिव' / कस्मिन् ? / 'सान्ध्यघनमूर्धनि' सान्ध्यःसन्ध्यायां भवो यो घनो-मेघः तस्य मूर्धनि-मस्तके / आधारे सप्तमी / यथा सान्ध्यघनशिरःस्थिता तडिद्