________________ श्रीअरजिनस्तुतयः 301 भाति, तथा देवी गरुडपृष्ठारूढा चक्रैः शोभते इत्याशयः / किंविशिष्टैः महारिभिः ? / 'असमदवैरिव धामहारिभिः' असमा-अनन्यसदृशा ये दवाः-वनवहयः तैरिव धाम्ना-तेजसा हारिभिः-कान्तैः / “दवो दावो वनवह्निः” इत्यभिधानचिन्तामणिः (का०४, श्लो० 167) / न चात्र विभक्तिलोपः शङ्कनीयः “इवेन सह नित्यं समासो विभक्त्यलोपश्च” इति वार्तिकात् / / इति तुरीयवृत्तार्थः // 4 / 18 / 72 // ध० टीका-येति / 'या' / 'अत्र' अस्मिन् जगति / 'विचित्रवर्णविनतात्मजपृष्ठं' विचित्रवर्ण:शबलवर्णः “आजानु कनकगौरम्” इत्यादिवचनात् यो विनतात्मजो-गरुत्मान् तस्य पृष्ठं-गात्रोपरिभागम् / 'अधिष्ठिता' अधिरूढा / 'हुतात्समतनुभाक्' हुतं अत्तीति हुताद्-अग्निः तत्समं तनु-मूर्ति भजते या सा / 'अविकृतधीः' अविकृता-अविकारिणी धीर्यस्याः सा / 'असमदवैरिव' असदृशदावैरिव / 'धामहारिभिः' धाम्ना-तेजसा हारिभिः कान्तैः / 'तडिदिव' विद्युदिव / ‘भाति' शोभते / ‘सान्ध्यघनमूर्धानि' सन्ध्याभवाम्भोदशिरसि / 'चक्रधरा' अप्रतिचक्रा / 'अस्तु' भवतु / 'सा' | ‘मुदे' प्रीत्यै / 'असमतनुभा' समा च तनुश्च समतनुः, न समतनुः (असमतनुः) भा यस्याः सा / 'गवि' पृथिव्यां, स्वर्गे वा / 'कृतधीरसमदवैरिवधा' कृतो धीराणां समदानां वैरिणां वधो यया सा / ‘महारिभिः' महद्भिश्चकैः / या विचित्रवर्णविनतात्मजपृष्ठं अधिष्ठिता सती सान्ध्यघनमूर्धनि तडिदिव भाति सा महारिभिः कृतधीरसमदवैरिवधा चक्रधरा मुदेऽस्त्विति सम्बन्धः // 4 / 18 / 72 // अवचूंरिः अरा एषां सन्तीत्यरीणि-चक्राणि / महान्ति च तान्यरीणि च तैर्महारिभिः-महाचक्रैः याऽत्र-जगति चक्रधरा देवी-अप्रतिचक्रा देवी भाती-शोभते / कथंभूता ? / विविधवर्णगरुडपृष्ठमधिरूढा | हुतमत्तीति हुताद्-वहिस्तत्तुल्यां तनुं भजते / अविकृता-अविकारिणी धीर्यस्याः सा / महारिभिः किंभूतैः ? | असमानदवानलैरिव / धाम-तेजस्तेन हारिभिः-मनोहरैः / यथा विद्युत् सन्ध्याभवमेघमस्तके भाति तद्वत् / सा देवी मुदेऽस्तु-भवतु / समा च तनुश्च समतनुः, न समतनुरसमतनुः, एवंविधा भा यस्याः / गवि-पृथिव्यां स्वर्गे वा / कृतो धीराणां समदानां वैरिणां वधो यया // 4 / 18 / 72 //