________________ 302 शोभनस्तुति-वृत्तिमाला 19. श्रीमल्लिजिनस्तुतयः अथ श्रीमल्लिनाथस्य स्तुतिःनुदंस्तनुं प्रवितर मल्लिनाथ ! मे प्रियङ्गुरोचिररुचिरोचितां वरम् / विडम्बयन् वररुचिमण्डलोज्ज्वलः | प्रियं गुरोऽचिररुचिरोचिताम्बरम् // 1 // 3 // __ - रुचिरा (4,9) ज० वि०- नुदस्तनुमिति / हे मल्लिनाथ !-मल्लिप्रभो ! हे गुरो !-महात्मन् ! त्वं मे-मम वरंप्रार्थितार्थम्, अत्र बवयोरैक्यं तु यमकवशात् ज्ञेयम्, प्रवितर-देहीति क्रियाकारकसम्बन्धः / अत्र 'प्रवितर' इति क्रियापदम् / कः कर्ता ? 'त्वम्' / कं कर्मतापन्नम् ? 'वरम्' / त्वं किं कुर्वन् ? 'नुदन्' प्रेरयन्-क्षिपन् / कां कर्मतापन्नाम् ? 'तनु' शरीरम् / कथंभूतां तनुम् ? 'अरुचिरोचितां' रुचिरा-मनोहरा उचिता-योग्या, एतादृशी न भवतीत्यरुचिरोचिता ताम् / पुनः किं कुर्वन् ? 'विडम्बयन्' अवहेलयन् / किं कर्मतापन्नम् ? अचिररुचिरोचिताम्बरम्' अचिररुच्या-विद्युता रोचितं-उद्भासितं यदम्बरं-नभस्तत् / कथंभूतः सन् ? वरं-प्रधानं यद् रुचिमण्डलं-प्रभामण्डलं तेनोज्ज्वलः-कान्तः सन् / त्वं कथंभूतः ? 1. 'प्रवितनु' इत्यपि पाठः /