________________ श्रीमल्लिजिनस्तुतयः 303 'प्रियङ्गुरोचिः' प्रियङ्गुः-वृक्षविशेषः तद्वद् रुचिः-द्युतिर्यस्य स तथा, नीलद्युतिरित्यर्थः / वरं कथंभूतम् ? 'प्रियं' प्रीतिकरम् / इदं च विशेषणं अम्बरस्यापि घटते / / अथ समासः-मल्लिश्चासौ नाथश्च मल्लिनाथः ‘कर्मधारयः' / तत्सम्बो० हे मल्लि० / प्रियशवद् रोचिर्यस्य स प्रियङ्गु० 'बहुव्रीहिः' / रुचिरा चासौ उचिता च रुचिरोचिता ‘कर्मधारयः' / न रुचिरोचिता अरुचिरोचिता 'तत्पुरुषः' / तां अरुचि० / रुचीनां मण्डलं रुचि० 'तत्पुरुषः' / वरं च तद् रुचिमण्डलं च वररुचि० 'कर्मधारयः' / वररुचिमण्डलेनोज्ज्वलो वररुचि० 'तत्पुरुषः' / न चिरं(रा) अचिरं(रा) 'तत्पुरुषः' ।अचिरं(रा) रुचिर्यस्याः साअचिर० 'बहुव्रीहिः' ।अचिररुच्या रोचितं अचिर० 'तत्पुरुषः' / अचिररुचिरोचितं च तदम्बरं च अचिर० 'कर्मधारयः' / तदचिर० / / इति काव्यार्थः / / 73 / / सि० वृ०- नुदस्तनुमिति / परीषहादिमल्लजयात् मल्लिः / निरुक्तात् गर्भस्थेऽस्मिन् मातुः सर्वर्तुकुसुममाल्यशयनीयदोहदो देवतयाऽपूरीति वा मल्लिः / स चासौ नाथश्च मल्लिनाथः तस्य संबोधनं हे मल्लिनाथ ! / हे 'गुरो !' गृणाति धर्मोपदेशं यथार्थोपदेष्टा वा गुरुः तस्य संबोधनं हे गुरो ! / [गृणाति हिताहितत्वं इति गुरुः तस्य सं० हे गुरो !-हे धर्मोपदेशक] ! 'गृ शब्दे' कृग्रोरुच्च' (उणा० सू० 24) इति उप्रत्ययः / ऋकारस्य च उकारः 'उरण्रपरः' (पा० अ० 1, पा० 1, सू० 51) / त्वं मे-मम वरंसमीहितं प्रवितर-प्रदेहीत्यर्थः / प्रविपूर्वक 'तृ प्लवनतरणयोः' इति धातोः ‘आशीःप्रेरणयोः' (सा० सू० 703) कर्तरि परस्मैपदे मध्यमपुरुषैकवचनम् / अत्र ‘प्रवितर' इति क्रियापदम् / कः कर्ता ? | त्वम् / किं कर्मतापन्नम् ? / वरम् / ‘वृङ् वरणे' अप्रत्यये वरो देवेभ्यः, स्वसमीहितप्रार्थनमित्यर्थः / यदाह“तपोभिरिष्यते यत् तु, देवेभ्यः स वरो मतः” इति कात्यः / वरमिति मान्तमव्ययमित्येके / “वरो जामातरि वृतौ, देवतादेरभीप्सिते / पिङ्गे पुंसि त्रिषु श्रेष्ठे, कुङ्कुमे तु नपुंसकम् // 1 // वरी प्रोक्ता शतावाँ, वरा च स्यात् फलत्रिके / मनागिष्टे वरं क्लीबं, केचिदाहुस्तदव्ययम् // 2 // " इति रायमुकुटाख्यायाममरटीकायाम् / कथंभूतं वरम् ? / प्रियं-वल्लभम्, प्रीतिकरमित्यर्थः / इदं अम्बरस्यापि विशेषणं घटते / त्वं किं कुर्वन् ? / नुदन्-क्षिपन् / काम् ? / तनु-देहम् / “त्वग्देहयोरपि तनुः” इत्यमरः (?) / कथंभूतां तनुम् ? / 'अरुचिरोचिताम्' रुचिरा-मनोहरा उचिता-योग्या, रुचिरा चासौ उचिता च रुचिरोचिता इति कर्मधारयः', एतादृशी न भवतीत्यरुचिरोचिता तां, लघुकर्मणा स्तोककालेनैव मुक्तिगमनेन तत्त्यागसम्भवाद् बहुलकर्मणामेव तत्सम्भवेनारुचिरोचितत्वमिति भावः / पुनः किं कुर्वन् ? /