________________ 304 शोभनस्तुति-वृत्तिमाला 'विडम्बयन्' विडम्बयतीति विडम्बयन्-अवहेलयन् / किं कर्मतापन्नम् ? / 'अचिररुचिरोचिताम्बरम्' . अचिररुच्या-तडिता रोचितं-उद्भासितं यदम्बरं-नभः तत् / “अम्बरं व्योम्नि वाससि” इत्यमरः (?) / किंविशिष्टः त्वम् ? / 'वररुचिमण्डलोज्ज्वलः' सन् वरः-प्रधानो यो रुचिमण्डलो-भामण्डलस्तेन उज्ज्वलः-अवदातः सन् / त्वं कथंभूतः ? / 'प्रियङ्गुरोचिः' प्रियङ्गुः-फलिनी तद्वद् रोचिः-कान्तिः यस्य सः, नीलद्युतिरित्यर्थः / यदाहुः (अभि० का० 1, श्लो० ४९)“रक्तौ च पद्मप्रभवासुपूज्यौ शुक्लौ च चन्द्रप्रभपुष्पदन्तौ / कृष्णौ पुनर्नेमिमुनी विनीलौ श्रीमल्लिपावों कनकत्विषोऽन्ये // " - इन्द्रवज्रा इति श्रीहेमसूरिणः / “प्रियङ्गुः फलिनीकगुपिप्पलीराजिकासु च” इति विश्वः / अत्र भामण्डलविद्युतोः भगवत्तनुव्योम्नोश्च साधादुपमानोपमेयभावः प्रदर्शितः / / 73 / / (3) सौ० वृ०-यो भवाम्भोधेररं-तटं प्राप्तः स कामादिषडन्तररिपूणां विजये मल्ल इव मल्लः तथा गर्भस्थे भगवति मातुर्मल्लिकामालादोहदोत्पन्नत्वेन नाम्ना मल्ली(?) / अनेन सम्बन्धेनायातस्य मल्लिजिनस्य स्तुतेर्व्याख्यानं लिख्यते नुदस्तनुमिति / हे मल्लिनाथ !-हे मल्लिस्वामिन् ! हे गुरो !-महन् ! मे-मम मह्यं वा त्वं वरं-मनोऽभिलषितं प्रवितर इत्यन्वयः / 'प्रवितर' इति क्रियापदम् / कः कर्ता ? | 'त्वम्' / 'प्रवितर' ददस्व / कं कर्मतापन्नम् ? / 'वरं' इत्यत्र बवयोरैक्यं यमकत्वात् / 'प्रवितनु' इत्यपि पाठः / ‘प्रवितनु' विस्तारय / त्वं किं कुर्वन् ? / 'नुदन्' पीडयन् / कां कर्मतापन्नाम् ? / 'तनुम्' / (किंविशिष्टाम् ? / ) रुचिरा-मनोज्ञा उचिता-योग्या तवयं नास्ति सा अरुचिरोचिता, तां 'अरुचिरोचिताम्' / किंविशिष्टं वरम् ? / 'प्रियं' इष्टम्, पुनस्त्वं किं कुर्वन् ? / 'विडम्बयन्' तिरस्कुर्वन् / किं कर्मतापन्नम् ? / अचिररुचिः-विद्युत् [तस्य / रोचिः-त्विट् कान्तिः ते-तव] (तया रोचितं) अम्बरं-आकाशं 'अचिररुचिरोचिताम्बरम्' / पुनः त्वं किंविशिष्ट: ? / वरं-प्रधानं यद् रुचिमण्डलं-प्रभामण्डलं तेन तद्वद् वा उज्ज्वलो-निर्मलः कान्तः 'वररुचिमण्डलो-ज्ज्वलः' / पुनः किंविशिष्टस्त्वम् ? / प्रियङ्गुः-वृक्षविशेषः फलिनीनामा तद्वद् रोचिः-कान्तिर्यस्य स 'प्रियङ्गुरोचिः', नीलवर्ण इत्यर्थः / एतादृशो मल्लिर्मम प्रियं वरं वितर / इति पदार्थः / / 1. इदं चिन्त्यम् /