________________ श्रीमल्लिजिनस्तुतयः 305 अथ समासः-नुदतीति नुदन् / मल्लिश्चासौ नाथश्च मल्लिनाथः, तस्य सं० हे मल्लिनाथ ! / प्रियशैवद् रोचिर्यस्य स प्रियङ्गुरोचिः / रुचिरा च उचिता च रुचिरोचिते, न विद्यते रुचिरोचिते यस्याः सा अरुचिरोचिता, तां अरुचिरोचिताम् / विडम्बयतीति विडम्बयन् / रुचेर्मण्डलं रुचिमण्डलं, वरं च तद् रुचिमण्डलं च वररुचिमण्डलं, वररुचिमण्डलेन उज्ज्वलः वररुचिमण्डलोज्ज्वलः / न विद्यते चिरा-चिरकालस्थायिनी रो(रु)चिर्यस्याः सा अचिररो(रु)चिः, अचिररोचिषा(रुच्या)रोचितं अचिर(रु)चिरोचितं, अचिररो(रु)चिरोचितं च तद् अम्बरं च अचिररुचिरोचिताम्बरम् / इति प्रथमवृत्तार्थः / इन्द्रवज्रोपजात्युपजातिवंशस्थच्छन्दसा स्तुतिरियम् / / 73 / / . (4) दे० व्या०-नुदन्निति / हे मल्लिनाथ ! त्वं मे-मम वरं प्रवितर-दद्यादित्यन्वयः / 'तृ प्लवनतरणयोः' इति धातुः / 'प्रवितर' इति क्रियापदम् / कः कर्ता ? / त्वम् / कं कर्मतापन्नम् ? / वरं-वाञ्छितम् / ववयोरैक्याद् वकारस्थाने बकारग्रहणम् / 'गुरो !' इति / गृणीते धर्ममिति गुरुः तस्यामन्त्रणम् / “गुरुर्ज्ञानो(धर्मो)पदेशकः” इत्यभिधानचिन्तामणिः (का० 1, श्लो० 77) / “हिताहितप्राप्तिपरिहारोपदेष्टा गुरुः” इति नैयायिकाः / किंविशिष्टं वरम् ? / प्रियं-वल्लभम् / त्वं किं कुर्वन् ? / नुदन्-परिक्षिपन् / काम् ? / तनु-शरीरम् / किंविशिष्टां तनुम् ? / 'अरुचिरोचिताम्' अरुचिरा-बहुलकर्माणः तेषामुचितायोग्या या सा ताम्, लघुकर्मणां स्तोककालेनैव मुक्तिगमनेन तत्त्यागात् / पुनः किं कुर्वन् ? / विडम्वयन्हसन् / किम् ? / 'अचिररुचिरोचिताम्बरं' अचिररुचिः-विद्युत् तया रोचितं-उद्भासितं यद् अम्बरंआकाशं तत् / किंविशिष्टस्त्वम् ? | ‘वररुचिमण्डलोज्ज्वलः' वरः-प्रधानो यो रुचिमण्डलो-भामण्डलः तेन उज्ज्वलः-अवदातः / पुनः किंविशिष्टः ? / 'प्रियङ्गुरोचिः' प्रियङ्गुः-वृक्षभेदः तद्वद् रोचिःकान्तिर्यस्य स तथा / “प्रियङ्गुः फलिनी श्यामा” इत्यभिधानचिन्तामणिः (का० 4, श्लो० 215) / इति प्रथम-वृत्तार्थः / / 73 / / (5) ध० टीका-नुदन्निति / 'नुदन्' प्रेरयन् / 'तनु' मूर्तिम् / 'प्रवितनु' प्रकर्षण विस्तारय / 'मल्लिनाथ !' मल्लिस्वामिन् ! / 'मे' मह्यम् / 'प्रियङ्गुरोचिः' श्यामद्युतिः / 'अरुचिरोचितां' रुचिरां च * उचितां च रुचिरोचितां, न रुचिरोचिताम् / 'वरं' प्रार्थितार्थम् / 'विडम्बयन्' हसन् / 'वररुचिमण्डलोज्ज्वलः' वरं यद् चिमण्डलं-प्रभामण्डलं तेन उज्ज्वलः-कान्तः / 'प्रियं' प्रीतिकरम् / एतद् वरस्याम्बरस्य वा विशेषणम् / 'गुरो !' महात्मन् ! / 'अचिररुचिरोचिताम्बरम्' अचिररुच्या-विद्युता रोचितं-उद्भासितं 1. इदमपि चिन्त्यम् /