________________ 306 शोभनस्तुति-वृत्तिमाला +++++++++++++++++ +++++++++++++ यद् अम्बरं-आकाशं तत् / हे मल्लिनाथ ! तनुमरुचिरोचितां नुदन् वररुचिमण्डलोज्ज्वलः सन् अचिररुचिरोचिताम्बरं विडम्बयन् वरं मे प्रवितन्विति योगः / / 73 / / .. अवचूरिः नुदन्-क्षिपन् तनु-शरीरम् / प्रियंगुः-श्यामो वृक्षविशेषस्तद्वद् रोचिर्यस्य / तनुं कथंभूताम् ? रुचिरामुचितां च, न एवंविधाम् / रुचिमण्डलं-भामण्डलं तेनोज्ज्वलः-कान्तः / अचिररुच्या रोचितं विधुच्छोभितमम्बरम्-आकाशं विडम्बयन् / हे मल्ले (मल्लिनाथ) ! हे गुरो ! अरुचिरोचितां तनुं नुदन् प्रियंगुवर्णः भामण्डलशोभितः विद्युत्सहितमाकाशं पराभवन् मम वरं प्रवितर / / 73 / . .. जिनपतीनां स्तुतिः जवाद् गतं जगदवतो वपुर्व्यथा___कदम्बकैरवशतपत्रसं पदम् / जिनोत्तमान् स्तुत दधतः स्रजं स्फुरत्कदम्बकैरवशतपत्रसम्पदम् // 2 // 74 / / - रुचिरा (1) . ज० वि०-जवादिति / भो भव्याः ! यूयं जिनोत्तमान्-जिनवरान् स्तुत-प्रणमतेति क्रियाकारकसंयोजनम् / अत्र 'स्तुत' इति क्रियापदम् / के कर्तारः ? 'यूयम्' / कान् कर्मतापन्नान् ? 'जिनोत्तमान्' / किं कुर्वतो जिनोत्तमान् ? 'अवतः' रक्षतः / किं कर्मतापन्नम् ? 'जगत्' विश्वम् / कस्मात् ? 'जवात्' वेगात् / कथंभूतं जगत् ? ‘गतं' यातम् / किं कर्मतापन्नम् ? 'पदं' स्थानम् / पदं कथंभूतम् ? 'अवशतपत्त्रसम्' अवशाः-परवशाः तपन्तः-तापमनुभवन्तः त्रसाः-सत्त्वा यस्मिन् तथा / कैः कृत्वा ? ‘वपुर्व्यथाकदम्बकैः' वपुःपीडोत्पीडैः / नरकादिगतं जगदवत इति समुदायार्थः / पुनः किं कुर्वतः ? 'दधतः' धारयतः / कां कर्मतापन्नाम् ? 'स्रजं' मालाम् / कथंभूतां स्रजम् ? 'स्फुरत्कदम्बकैरवशतपत्रसम्पदम्' स्फुरन्ती-दीप्यमाना कदम्वानां-वृक्षविशेषकुसुमानां कैरवाणां-कुमुदानां शतपत्राणांकमलानां सम्पत्-समृद्धिर्यस्यां सा तथा ताम् / /