________________ श्रीमल्लिजिनस्तुतयः 307 अथ समासः-वपुषो व्यथा वपुर्व्यथाः 'तत्पुरुषः' / वपुर्व्यथानां कदम्बकानि वपुर्व्यथा० 'तत्पुरुषः' / तैर्वपुर्व्यथा० / न वशा अवशाः 'तत्पुरुषः' / अवशाश्च ते तपन्तश्च अवश० 'कर्मधारयः' / अवशतपन्तस्त्रसा यस्मिन् तद् अवश० 'बहुव्रीहिः' / जिनानां जिनेषु वा उत्तमा जिनोत्तमाः 'तत्पुरुषः' / तान् जिनो० / कदम्बाश्च कैरवाणि च शतपत्राणि च कदम्ब० 'इतरेतरद्वन्द्वः' / कदम्बकैरवशतपत्राणां सम्पत् कदम्ब० 'तत्पुरुषः' / स्फुरन्ती कदम्बकैरवशतपत्रसम्पद् यस्यां सा स्फुर० 'बहुव्रीहिः' / तां स्फुर० / / इति काव्यार्थः / / 74 / / (2) सि० वृ०-जवादिति / भो भव्याः ! यूयं जिनोत्तमान्-जिनवरान् स्तुत-प्रणमतेत्यर्थः / ‘स्तुञ् स्तुतौ' धातोः ‘आशी:प्रेरणयोः' (सा० सू०७०३) कर्तरि परस्मैपदे मध्यमपुरुषबहुवचनम् / ‘अप् कर्तरि' (सा० सू० 691) इत्यप्, ‘अदादेर्लुक्' (सा० सू० 880) इति लुक् / अत्र ‘स्तुत' इति क्रियापदम्। के कर्तारः ? / यूयम् / कान् कर्मतापन्नान् ? / 'जिनोत्तमान्' जिनेषु उत्तमाः जिनोत्तमाः तान् / किं कुर्वतः जिनोत्तमान् ? / 'अवतः' अवन्ति-रक्षन्ति ते अवन्तः तान् / किम् ? / जगत्-विश्वम् / कथम् ? / जवात्-वेगात् / “जवो वेगस्त्वरिस्तूर्णिः” इत्यमरः (?) / कथंभूतं जगत् ? / गतं-प्राप्तम् / किम् ? / पद-स्थानम् / पदं कथंभूतम् ? / 'अवशतपत्त्रसं' न वशा अवशाः-पराधीनाः परमाधार्मिकायत्ता इति यावत् तपन्तः-तापमनुभवन्तः त्रसाः-सत्त्वाः यस्मिन् तत् तथा / कैः कृत्वा ? / 'वपुर्व्यथा कदम्बकैः' वपुषो-देहस्य व्यथा-यातना तस्याः कदम्बकैः-समूहैः / नरकादिगतं जगदवतीति समुदायार्थः / पुनः किं कुर्वतो जिनोत्तमान् ? / दधतो-धारयतः / काम् ? / सजं-मालाम् / कथंभूतां स्रजम् ? | 'स्फुरत्कदम्बकैरव-शतपत्रसम्पदं' स्फुरन्ती-दीप्यमाना कदम्बानां-वृक्षविशेषकुसुमानां कैरवाणांकुमुदानां शतपत्राणां-कमलानां सम्पत्-समृद्धिर्यस्याः सा ताम् / “सहस्रपत्रं कमलं शतपत्रं कुशेशयं” इत्यमरः (श्लो० 546) / कदम्बो-नीपः / “नीपः कदम्बः सालस्तु” इति हैमः (का०४, श्लो० 204) / कैरवं-श्वेतकमलम् / श्वेते तु तत्र कुमुदं, कैरवं गर्दमाह्वयम्” इति हैमः (का० 4, श्लो० 230) / शतपत्रंकमलम् / कदम्वश्च कैरवं च शतपत्रं च कदम्बकैरवशतपत्राणि 'इतरेतरद्वन्द्वः' / / 74 / / सौ० वृ०-जवादिति / भो भव्याः ! यूयं जिनोत्तमान्-तीर्थकरप्रधानान् स्तुत इत्यन्वयः / 'स्तुत' इति क्रियापदम् / के कर्तारः ? / ‘यूयम्' / 'स्तुत' प्रणमत / कान् कर्मतापन्नान् ? / 'जिनोत्तमान्' / किं कुर्वतो जिनोत्तमान् ? / 'अवतः' रक्षतः / किं कर्मतापन्नम् ? / 'जगत्' विश्वम् / कथम् ? / 'जवात्' वेगेन / किंविशिष्टं जगत् ? / 'गतं' प्राप्तम् / किं कर्मतापन्नम् ? / 'पदं' स्थानम् / कैः कृत्वा ? / वपुःशरीरं तस्य व्यथाः-चिन्ताः पीडादयः तासां कदम्बकानि-वृन्दानि तैः ‘वपुर्व्यथाकदम्बकैः' / पुनः