________________ 308 शोभनस्तुति-वृत्तिमाला किंविशिष्टं जगत् (पदं?) ? / अवशाः-परवशाः तपन्तः-संसारसुखाभिलाषेण तापं प्राप्नुवन्तो ये त्रसाःसत्त्वा यस्मिन् तद् ‘अवशतपत्रसम्' / जिनोत्तमान् किं कुर्वतः ? 'दधतः' धारयतः / कां कर्मतापनाम् ? / ‘स्रजं’ मालाम् / किंविशिष्टां स्रजम् ? / स्फुरन्तः-दीप्यन्तः कदम्बा-नीपवृक्षविशेषाः कैरवाःकुमुदादयः शतपत्राणि-कमलादीनि तेषां सम्पत्-ऋद्धिः यस्यां सा ‘स्फुरत्कदम्बकैरवशतपत्रसम्पदम्' / इति पदार्थः / / अथ समासः-अवन्ति-रक्षन्तीति अवन्तः, तान् अवतः / वपुषां व्यथाः वपुर्व्यथाः, वपुर्व्यथानां कदम्वकानि वपुर्व्यथाकदम्बकानि, तैर्वपुर्व्यथाकदम्बकैः / न वशा अवशाः, तपन्ति ते तपन्तः, अवशाः तपन्तस्त्रसा यस्मिन् तत् अवशतपत्त्रसं, तद् अवशतपत्त्रसम् / जिनेषु उत्तमा जिनोत्तमाः,, तान् जिनोत्तमान् / दधति ते दधन्तः, तान् दधतः। कदम्वाश्च कैरवाश्च शतपत्राणि च कदम्बकैरवशतपत्राणि, स्फुरन्ति च तानि कदम्बकैरवशतपत्राणि च स्फुरत्कदम्बकैरवशतपत्राणि, स्फुरत्कदम्बकैरवशतपत्राणां सम्पद् यस्यां सा स्फुरत्कदम्बकैरवशतपत्रसम्पदम् / इति द्वितीयवृत्तार्थः / / 74 / / (4) दे० व्या०-जवादिति / हे भव्यलोकाः ! यूयं जिनोत्तमान-जिनेषु उत्तमान्-श्रेष्ठान् तीर्थंकरानित्यर्थः स्तुत-स्तुतिविषयीकुरुत इत्यन्वयः / 'स्तुञ् स्तुतौ' धातुः / ‘स्तुत' इति क्रियापदम् / के कर्तारः ? / 'यूयम्' / कान् ? / 'जिनोत्तमान्' / किं कुर्वतो जिनोत्तमान् ? / 'दधतो'-धारयतः / काम् ? / 'सजं'-मालाम् / किंविशिष्टां स्रजम् ? / 'स्फुरत्कदम्बकैरवशतपत्रसम्पदं' कदम्बो-नीपः, “नीपः कदम्बः सालस्तु" इत्यभिधानचिन्तामणिः (का० 4, श्लो० 204), कैरवं-श्वेतकमलं, “श्वेते तु तत्र कुमुदं, कैरवं गर्दमाह्वयम्" इत्यभिधानचिन्तामणिः (का० 4, श्लो० 230), शतपत्रं कमलं सेवन्तीति लोकप्रसिद्धं पुष्पं वा, एतेषां पूर्वं 'द्वन्द्वः', ततः स्फुरन्ती कदम्बकैरवशतपत्राणां सम्पद्यस्यामिति बहुव्रीहिः' / पुनः किं कुर्वतो जिनोत्तमान् ? / 'अवतः' रक्षतः / किम् ? / जगत्-विष्टपम् / कस्मात् ? / जवात् / किंविशिष्टं जगत् ? / 'गतं'-प्राप्तम् / किम् ? / पदं-नरकादिस्थानम् / किंविशिष्टं पदम् ? / 'अवशतपत्रसम्' अवशाः परतन्त्राः परमाधार्मिकाधीना इति यावत् तपन्तः-तापमनुभवन्तः त्रसाः-प्राणिनो यत्र तत् / कैः ? / 'वपुर्व्यथाकदम्बकैः' वपुषः-शरीरस्य व्यथायातनाः तासां कदम्बकाः-समूहाः तैः / “वृन्दं चक्रकदम्बके समुदयः पुओत्करौ संहतिः” / इत्यभिधानचिन्तामणिः (का० 6, श्लो० 47) / इति द्वितीयवृत्तार्थः / / 74 / / ध० टीका-जवादिति / 'जवात्' वेगात् / 'गतं' यातम् / 'जगदवतः' विश्वं रक्षतः / ‘वपुर्व्यथाकदम्वकैः' शरीरपीडोत्पीडैः / 'अवशतपत्त्रसं' अवशाः-परवशाः तपन्तः-तापं अनुभवन्तः त्रसाः-सत्त्वा