________________ श्रीमल्लिजिनस्तुतयः 309 - यत्र तत् / ‘पदं' स्थानं नरकादिकम् / 'जिनोत्तमान्' जिनवरान् / 'स्तुत' प्रणत / 'दधतः' धारयन्तः / ‘स्रज' पुष्पमालाम् / ‘स्फुरत्कदम्बकैरवशतपत्रसंपदं' कैरवाणि-कुमुदानि स्फुरन्ती कदम्बानां कैरवाणां शतपत्राणां च सम्पत्-समृद्धिर्यत्र ताम् / अवशतपत्रसं पदं गतं जगज्जवादवतो जिनोत्तमान् स्तुतेति सम्बन्धः / / 74 / / अवचूरिः जवाद्-वेगाज्जगद्-विश्वमवतो-रक्षतो जिनोत्तमान् हे भव्यजनाः ! स्तुत-नुत / जगत् किंविशिष्टम् ? / पदं-स्थानं नरकादिलक्षणं / गतं-प्राप्तम् / पदं किंभूतम् ? / वपुःपीडोत्पीडैरवशाःपरतन्त्रास्तपन्तः-तापमनुभवन्तस्त्रसाः-प्राणिनो यत्र तत् / जिनोत्तमान् कथंभूतान् ? / स्रजं-पुष्पमाला दधतः / मालां कथंभूताम् ? / स्फुरन्ती कदम्बानां कैरवाणां शतपत्राणां च सम्पद् यत्र / / 74 / / सिद्धान्तश्लाघनम्- . : स सम्पदं दिशतु जिनोत्तमागमः - शमावहन्नतनुतमोहरोऽदिते / स चित्तभूः क्षत इह येन यस्तपः___शमावहनतनुत मोहरोदिते // 3 // 75 // - रुचिरा - ज० वि०-स सम्पदमिति / स जिनोत्तमागमः-जिनपतिसिद्धान्तः सम्पदं-श्रियं दिशतु इति क्रियाकारकयोजना / अत्र ‘दिशतु' इति क्रियापदम् / कः कर्ता ? 'जिनोत्तमागमः' / कां कर्मतापन्नाम् ? 'सम्पदम्' / जिनोत्तमागमः किं कुर्वन् ? 'आवहन्' कुर्वन् / किं कर्मतापन्नम् ? 'शं' सुखम् / जिनोत्तमागमः कथंभूतः ? ‘अतनुतमोहरः' अतनु-प्रभूतं तमो हरति यः स तथा / अथवा अतनुतमान्-प्रभूततमान् ऊहान् राति-ददातीति अतनुतमोहरः / स इति तच्छब्दसम्बन्धाद् यच्छब्द(घटना)माह-येन जिनोत्तमागमेन (इहलोके) स चित्तभूः-मनोभवः क्षतः-ध्वस्तः / अत्रापि क्षतः' इति क्रियापदम् / केन क; ? 'येन' / कः कर्मतापन्नः ? 'चित्तभूः' अत्रापि स इति तच्छब्दसाहचर्याद् यच्छब्दघटनामाह-यः चित्तभूः 'मोहरोदिते' मोहः-अज्ञानं रोदितं-रोदनमते द्वे अपि अतनुत-विस्तारयामास / अत्रापि च ‘अतनुत' इति क्रियापदम् /