________________ 310 शोभनस्तुति-वृत्तिमाला कः कर्ता ? 'यः' / के कर्मतापन्ने ? 'मोहरोदिते' / कथंभूते मोहरोदिते ? ‘अदिते' अखण्डिते / तथा यः चित्तभूः 'तपःशमौ' तपः द्वादशविधं शमः-उपशमः तौ अहन्-हतवान् / अत्रापि च 'अहन्' इति क्रियापदम् / कः कर्ता ? 'यः' / कौ कर्मतापन्नौ ? 'तपःशमौ' / / अथ समासः-जिनानां जिनेषु वा उत्तमाः जिनोत्तमाः 'तत्पुरुषः' / जिनोत्तमानामागमो जिनोत्तमागमः ‘तत्पुरुषः' / न तनु अतनु ‘तत्पुरुषः' / अतनु च तत् तमश्च अतनु० 'कर्मधारयः' / अतनुतमो हरतीति अतनु० 'तत्पुरुषः' / अथवा अतिशयेनातनवो अतनुतमाः / अतनुतमाश्च ते ऊहाश्च अतनु० कर्मधारयः' / अतनुतमोहान् रातीत्यतनु० 'तत्पुरुषः' / न दिते अदिते 'तत्पुरुषः' / ते अदिते / चित्ते भवतीति चित्तभूः 'तत्पुरुषः' / तपश्च शमश्च तपःशमौ / ‘इतरेतरद्वन्द्वः' / तौ तपःशमौ / मोहश्च रोदितं च मोहरोदिते ‘इतरेतरद्वन्द्वः' / ते मोहरोदिते / / इति काव्यार्थः / / 75 / / (2) सि० वृ०–स सम्पदमिति / स जिनोत्तमागमः-जिनवरसिद्धान्तः सम्पदं-श्रियं दिशतु-ददात्वित्यर्थः / 'दिश अतिसर्जने' धातोः ‘आशीःप्रेरणयोः' (सा० सू० 703) कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं तुप् / 'तुदादेरः' (सा० सू० 1007) / तथा च 'दिशतु' इति सिद्धम् / अत्र ‘दिशतु' इति क्रियापदम् / कः कर्ता ? | स जिनोत्तमागमः / कां कर्मतापन्नाम् ? / सम्पदम् / जिनोत्तमागमः किं कुर्वन् ? | आवहन्-कुर्वन् / किं कर्मतापन्नम् ? / शं-सुखम् / कथंभूतो जिनोत्तमागमः ? | 'अतनुतमोहरः' अतनु-प्रभूतं तमो हरति-नाशयति यः स तथा / अथवा अतनुतमान्-प्रभूततमान् ऊहान् राति-ददातीत्यतनुतमोहरः / स इति तच्छब्दसम्बन्धाद् यच्छब्द(घटना)माह-येन जिनोत्तमागमेन इह-अत्र जगति स चित्तभूः-कंदर्पः क्षतः-क्षपितः, क्षयं नीत इत्यर्थः / अत्रापि 'क्षतः' इति क्रियापदम् / केन का ? / येन / कः कर्मतापन्नः ? / चित्तभूः / अत्रापि स इति तच्छब्दसाहचर्याद् यच्छब्द(घटना)माहयः अवगणितहरिहरादिदेवश्चित्तभूः अदिते-अखण्डिते 'मोहरोदिते' मोहश्च रोदितं च मोहरोदिते अतनुतअप्रथयतेत्यर्थः / 'तनु विस्तारे' धातोः कर्तरि आत्मनेपदे प्रथमपुरुषैकवचनं तत् / 'तनादेरुप्' (सा० सू० 997) / 'दिबादावट्' (सा० सू० 707) / तथा च ‘अतनुत' इति सिद्धम् / अत्र ‘अतनुत' इति क्रियापदम् / कः कर्ता ? / यः / के कर्मतापन्ने ? / मोहरोदिते-अज्ञानरोदने / रोदित इत्यत्र 'क्तो वा सेट्' (सा० सू० 1277) इति सेट् / क्तप्रत्ययस्य कित्वाभावपक्षे गुणः / तथा यश्चित्तभूः 'तपःशमौ' तपः-अनुष्ठानविशेषो द्वादशविधं वा धर्मविशेषो वा शमः-उपशमः तौ अहन्-हतवान् इत्यर्थः / 'हन हिंसागत्योः' इति धातोरनद्यतने कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं दिए / 'अप् कर्तरि' (सा० सू० 691) इत्यप् / ‘अदादेर्लुक्' (सा० सू० 880) / 'दिबादावट्' (सा० सू० 707) / दिस्योर्हसात्' (सा०