________________ श्रीमल्लिजिनस्तुतयः 311 सू० 885) इति दिपो लोपः / तथा च ‘अहन्' इति सिद्धम् / अत्रापि ‘अहन्' इति क्रियापदम् / कः कर्ता ? / यः / कौ कर्मतापन्नौ ? / 'तपःशमौ' तपश्च शमश्च तपःशमौ ‘इतरेतरद्वन्द्वः' / “तपो लोकान्तरेऽपि च / चान्द्रायणादौ धर्मे च, पुमान् शिशिरमाघयोः” इति मेदिनी / / 75 / / (3) सौ० वृ०-स सम्पदमिति / स जिनोत्तमागमः-तीर्थकृत्सिद्धान्तः [मे-मम] सम्पदं-श्रियं दिशतु इत्यन्वयः / 'दिशतु' इति क्रियापदम् / कः कर्ता ? / 'जिनोत्तमागमः' / 'दिशतु' ददातु / कां कर्मतापन्नाम् ? / 'सम्पदम्' / [कस्य ? | 'मम'] | जिनोत्तमागमः किं कुर्वन् ? | ‘आवहन्' प्रापयन् कथयन् वा / किं कर्मतापन्नम् ? / 'शं' सुखम् / पुनः किंविशिष्टः जिनोत्तमागमः ? / अतनुतमाः-प्रचुरा ऊहा-विचाराः तान् राति-ददातीति ‘अतनुतमोहरः' / किंविशिष्टो जिनोत्तमागमः ? / 'सः' प्रसिद्धः / तच्छन्दो यच्छन्दमपेक्षते / स कः ? / येन जिनोत्तमागमेन इह-संसारे चित्तभूः-कामः स दुर्धरः क्षतः इत्यन्वयः / 'क्षतः' इति क्रियापदम् / केन का ? / 'येन' जिनोत्तमागमेन / 'क्षतः' हतः / कः कर्मतापन्नः ? / 'चित्तभूः' / कस्मिन् ? | ‘इह' संसारे / कथंभूतश्चित्तभूः ? | 'सः' / (स) कः ? / यः कामः मोहः-अज्ञानं रोदितं ते द्वे अतनुत इत्यन्वयः / अतनुत' इति क्रियापदम् / कः कर्ता ? / 'यः' कामः / ‘अतनुत' विस्तारयत / के कर्मतापन्ने ? / 'मोहरोदिते' / किंविशिष्टे मोहरोदिते ? / 'अदिते' अखण्डिते-अच्छिन्ने / पुनः (यः) चित्तभूः-कामः तपःशमौ अहन् इत्यन्वयः / अहन्' इति क्रियापदम् / कः कर्ता ? / 'यः' चित्तभूः / अहन्' हन्ति स्म / कौ कर्मतापन्नौ ? / 'तपो' बाह्याभ्यन्तररूपं, 'शमः'उपशमः, तौ द्वौ यो विनाशयति स चित्तभूर्येन जिनागमेन ध्वस्तः / इति पदार्थः / / अथ समासः-जिनेषु उत्तमाः जिनोत्तमाः, जिनोत्तमानां आगमः जिनोत्तमागमः / अतिशयेन तनवः इति तनुतमाः, न तनुतमा अतनुतमाः, अतनुतमाश्च ते ऊहाश्च अतनुतमोहाः, अतनुतमोहान् रातिददातीति अतनुतमोहरः / न दिते अदिते, ते अदिते / चित्ताद् भवतीति चित्तभूः / तपश्च शमश्च तपःशमौ (तौ तपः०) / मोहश्च रोदितं च मोहरोदिते (ते मोह०) / इति तृतीयवृत्तार्थः / / 75 / / . दे० व्या०–स सम्पदमिति / स जिनोत्तमागमः सम्पदं-लक्ष्मीं दिशतु-ददातु इत्यन्वयः / 'दिश अतिसर्जने' धातुः / दिशतु' इति क्रियापदम् / कः कर्ता ? | 'जिनोत्तमागमः' जिनेषु उत्तमाः-तीर्थंकराः तेषाम्, यद्वा जिनानां उत्तमः-श्रेष्ठो य आगमः-सिद्धान्तः / “आप्तोक्तिः समयागमौ” इत्यभिधानचिन्तामणिः (का० 2, श्लो० 156) / कां कर्मतापन्नाम् ? / सम्पदं-लक्ष्मीम् / किं कुर्वन् आगमः ? | आवहन्-प्रापयन् / किम् ? / शं-सुखम् / किंविशिष्ट आगमः ? / 'अतनुतमोहरः' न तनु