________________ 312 शोभनस्तुति-वृत्तिमाला अतनु इति नसमासः, एवंविधं यत् तमः-अज्ञानं हरतीति तथा, यद्वा अतनुतमान्-अत्युत्कृष्टान् ऊहान्तर्कान् रातीति अतनुतमोहरः / यत्तदोर्नित्याभिसम्बन्धाद् येन-जिनोत्तमागमेन स-वक्ष्यमाणः चित्तभूःकन्दर्पः क्षतः-क्षयं प्रापितः / स कः ? / यो चित्तभूः / 'तपःशमौ' तपो द्वादशविधं, शमः-उपशमः अनयो 'र्द्वन्द्वः' तौ अहन्-हतवान् / 'हन हिंसागत्योः' इति धातुः / च-पुनः अदिते-अखण्डिते मोहरोदिते अतनुतअप्रथयत / 'तनु विस्तारे' धातुः / अतनुत' इति क्रियापदम् / कः कर्ता ? / चित्तभूः / के कर्मतापन्ने ? / 'मोहरोदिते' मोहो-मिथ्याभिनिवेशो रोदितं-विप्रलापः अनयो ‘र्द्वन्द्वः' / / इति तृतीयवृत्तार्थः / / 75 / / ध० टीका-स सम्पदमिति / ‘सः' / 'सम्पदं' श्रियम् / 'दिशतु' ददातु / 'जिनोत्तमांगमः' अर्हत्सिद्धान्तः / शं' सुखम् / आवहन्' कुर्वन् / 'अतनुतमोहरः' अतनु-प्रभूतं तमो हरति यः सः, यदिवा अतनुतमान् ऊहान् राति यः सः / ‘अदिते' अखण्डिते / सः' / 'चित्तभूः' मनोभवः / क्षतः' ध्वस्तः / 'इह' अत्र जगति / येन' आगमेन / 'यः' / 'तपःशमौ' तपश्च शमश्च (तौ) / अहन्’ हतवान् / अतनुत' अपप्रथत / 'मोहरोदिते' मोहः च रोदितं च / स जिनोत्तमागमः सम्पदं दिशतु येन चित्तभूः क्षतः स यस्तपशमावहन् अदिते मोहरोदिते अतनुतेति योगः / / 75 / / अवचूरिः स जिनेन्द्रागमः सम्पदं दद्यात् / कथंभूतः ? | शं-सुखमावहन्-कुर्वन् / अतनु-प्रौढं तमो हरतीति / यद्वा अतनुतमानूहान् राति-ददातीति / स चित्तभूः-कामो येन क्षतो-हतः / यः कन्दर्पस्तपःशमौ अहन्जघान / अदिते-अखण्डिते मोहश्च रोदितं च मोहरोदिते च योऽतनुत-अप्रथयत / / 75 / / श्रीकपर्दिस्मरणम्द्विपं गतो हृदि रमतां दमश्रिया प्रभाति मे चकितहरिद्विपं नगे / वटाहये कृतवसतिश्च यक्षराट प्रभातिमेचकितहरिद् विपन्नगे / / 4 / / 76 / / . - रुचिरा