________________ श्रीमल्लिजिनस्तुतयः 313 ज० वि०-द्विपमिति / यक्षराट्-यक्षराजः कपर्दिनामा मे-मम हृदि-हृदये रमतां-क्रीडतु तिष्ठत्विति यावत् इति क्रियाकारकयोजनम् / अत्र 'रमतां' इति क्रियापदम् / कः कर्ता ? ‘यक्षराट्' / कस्मिन् ? 'हृदि' / कस्य ? 'मे' / किं कुर्वति हृदि ? 'प्रभाति' शोभमाने / कया ? 'दमश्रिया' उपशम-सम्पदा / कथंभूतो यक्षराट् ? 'द्विपं गतः' गजमारूढः / कथंभूतं द्विपम् ? चकितः-त्रस्तो हरिद्विपः-सुरेन्द्रहस्ती यस्मात् तथा तम् / यक्षराट् पुनः कथंभूतः ? ‘कृतवसतिः' विहितवसतिः / चः समुच्चयार्थः / कस्मिन् ? 'नगे' वृक्षे / नगे कथं० ? ‘वटाह्वये' न्यग्रोधनाम्नि / पुनः कथं० ? 'विपन्नगे' विगतसपै / यक्षराट पुनः कथं० ? 'प्रभातिमेचकितहरित्' प्रभया-कान्त्या अतिशयेन मेचकिताः-श्यामीकृता हरितो-दिशो येन स तथा / / / ... अथ समासः-दमस्य श्रीः दमश्रीः 'तत्पुरुषः' / तया दमश्रिया / हरेर्द्विपो हरिद्विपः 'तत्पुरुषः' / चकितो हरिद्विपो यस्मात् स चकित० ‘बहुव्रीहिः' / तं चकित० / वट इत्याह्वयो यस्य स वटाह्वयः 'बहुव्रीहिः' / तस्मिन् वटा० / कृता वसतिर्येन स कृत० ‘बहुव्रीहिः' / यक्षाणां यक्षेषु वा राट् यक्षराट् 'तत्पुरुषः' / अतिशयेन मेचकिताः अतिमे० 'तत्पुरुषः' / अतिमेचकिता हरितो येन सोऽतिमे० :: ‘बहुव्रीहिः' / प्रभयाऽतिमेचकितहरित् प्रभाति० 'तत्पुरुषः' / विगताः पन्नगा यस्मात् स विपन्नगः 'बहुव्रीहिः' / तस्मिन् विप० / / इति काव्यार्थः / / 76 / / . // इति श्रीशोभनस्तुतिवृत्तौ श्रीमल्लितीर्थपतेः स्तुतेर्व्याख्या // 4 / 19 / 76 // . (2) सि० वृ०-द्विपमिति / यक्षराट्-यक्षाधिपतिः कपर्दिनामा मे-मम हृदि-हृदये रमतां-क्रीडतु इत्यर्थः / "रमु क्रीडायाम्' धातोः ‘आशी:प्रेरणयोः' (सा० सू०७०३) कर्तरि आत्मनेपदे प्रथमपुरुषैकवचनं ताम् / 'अप्०' (सा० सू० 691) / तथा च 'रमताम्' इति सिद्धम् / अत्र 'रमताम्' इति क्रियापदम् / कः कर्ता ? / 'यक्षराट्' यक्षेषु राजतीति यक्षराट् / क्विबन्तः 'ऋटुरषाणां मूर्धा' इति सावर्येन 'षोडः' (सा० सू० 277) इति षस्य डत्वम् / कस्मिन् ? / हृदि / कस्य ? मे / किं कुर्वति हृदि ? / प्रभाति-शोभमाने / कया? / 'दमश्रिया' दमस्य-उपशमस्य श्रीः दमश्रीः तया, उपशमसम्पदा / कथंभूतो यक्षराट् ? / 'गतः'प्राप्तः, अर्थादारूढः / कम् ? / 'द्विपं' द्वाभ्यां शुण्डाग्राभ्यां पिवतीति द्विपः तम् / ‘सुपि स्थः' (पा० अ० 3, पा० 2, सू० 4) इति योगविभागात् कः / कथंभूतं द्विपम् ? / चकितः-त्रस्तो हरेः-इन्द्रस्य द्विपोहस्ती यस्मात् स तथा तम् / अतिशयबलवत्त्वेन ऐरावणस्यापि बलोत्पादकत्वादिति भावः / पुनः कथंभूतो यक्षराट् ? / ‘कृतवसतिः' कृता-विहिता वसतिः-स्थानं गृहमितियावत् येन स तथा / “वसती रात्रिवेश्मनोः” इत्यमरः (श्लो० 2468) / चः समुच्चयार्थः / कस्मिन् ? / 'नगे' न गच्छतीति नगः