________________ 314 शोभनस्तुति-वृत्तिमाला वृक्षः तस्मिन् नगे / कथंभूते ? / 'वटाह्वये' वट इत्याह्वयः-अभिधानं यस्य स तथा तस्मिन् / “उदन्तोऽथाह्वयोऽभिधा / गोत्रसंज्ञानामधेया०” इति हैमः (का० 2, श्लो० 174) / पुनः किंविशिष्टे ? | 'विपन्नगे' विगताः पन्नगाः-सर्पा यस्मिन् तथा तस्मिन् / पुनः किंविशिष्टो यक्षराट् ? / 'प्रभातिमेचकितहरित्' प्रभया-कान्त्या अतिशयेन मेचकः सञ्जातो यासां ताः अतिमेचकिताअतिश्यामीकृता हरितो-दिशो येन स तथेति बहुव्रीहिः' / “मेचकः कृष्णनीलः स्यात्, अतसीपुष्पसन्निभः” इति शब्दार्णवः / “मेचकः शितिकण्ठाभः” इति तु दुर्गः / रुचिराच्छन्दः / “चतुर्ग्रहैरिह रुचिरा जभौ जसौ” इति च तल्लक्षणम् / / 76 / / / // इति महामहोपाध्यायश्रीभानु० श्रीमल्लिनाथजिनस्य स्तुतिवृत्तिः // 4 / 19 / 76 // .. (3) सौ० वृ०-द्विपमिति / स यक्षराट्-कपर्दिनामा यक्षराट् मे-मम हृदि-चित्ते रमतामित्यन्वयः / 'रमतां' इति क्रियापदम् / कः कर्ता ? / 'यक्षराट्' / 'रमतां' क्रीडताम् / ‘कस्मिन् ? / 'हृदि' / कस्य ? / 'मे' किंविशिष्टो यक्षराट् ? / ‘कृतवसतिः' कृतनिवासः / कस्मिन् ? / 'नगे' वृक्षे / किंविशिष्टे नगे ? / 'वटाह्वये' न्यग्रोधनामनि / पुनः किंविशिष्टो यक्षराट् ? / 'गतः' प्राप्तः, अधिरूढः / किं कर्मतापन्नम् ? / 'द्विपं' गजम् / गजवाहनमित्यर्थः / किंविशिष्टं द्विपम् ? | चकितः-त्रासितः हरेः इन्द्रस्य द्विपो-हस्ती येन स चकितहरिद्विपस्तं ‘चकितहरिद्विपं', ऐरावणजित्वरमित्यर्थः / किंविशिष्टे हृदि ? | ‘प्रभाति' प्रकर्षण भासनशीले / कया ? | 'दमश्रिया' विषयजयलक्षणशोभया / पुनः किंविशिष्टो यक्षराट ? | प्रभयाकान्त्या अतिशयेन मेचकिताः-चित्रिताः पिञ्जरीकृता हरितो-दिशो येन सः ‘प्रभातिमेचकितहरित्' / किंविशिष्टे नगे ? / विगता-दूरं गताः पन्नगाः-सर्पा यस्मिन् स विपन्नगः तस्मिन् ‘विपन्नगे' / एतादृशो यक्षो मे-मम प्रसन्ने हृदि रमताम् / इति पदार्थः / / / अथ समासः-द्वाभ्यां मुखशुण्डाभ्यां पिवतीति द्विपः, तं द्विपम्। दमस्य श्रीः दमश्रीः, तया दमश्रिया / प्रकर्षण भातीति प्रभात्, तस्मिन् प्रभाति। हरेर्द्विपः हरिद्विपः, चकितो हरिद्विपो यस्मात् स चकितहरिद्विपः, तं चकितहरिद्विपम् / वट इत्याहयो यस्य स वटाह्वयः, तस्मिन् वटाहये कृता वसतिर्येन स कृतवसतिः / यक्षाणां राजा(ट्) इति यक्षराट् / प्रभया अतिमेचकिता हरितो येन स प्रभातिमेचकितहरित् / विगताः पन्नगा यस्मिन् स विपन्नगः, तस्मिन् विपन्नगे / / इति तुर्यवृत्तार्थः / / 4 / / श्रीमन्मल्लिजिनेन्द्रस्य, स्तुतेरो लिपीकृतः // सौभाग्यसागराख्येण, सूरिणा ज्ञानसेविना // 1 // // इति श्रीएकोनविंशतितममल्लिजिनस्तुतिः // 4 / 1976 //