________________ श्रीमल्लिजिनस्तुतयः 315 __ (4) - दे० व्या०-द्विपमिति / यक्षराट्-यक्षाधिपतिः मे-मम हृदि-हृदये रमतां-परिक्रीडतामित्यर्थः / 'रमु क्रीडायां' धातुः / 'रमताम्' इति क्रियापदम् / कः कर्ता ? / यक्षराट् / कस्मिन् ? / हृदि / कस्य ? / मे | किंविशिष्टे हृदि ? / प्रभाति-शोभमाने / कया? / 'दमश्रिया' दमः-उपशमः तस्य श्रीः-लक्ष्मीः तया / किंविशिष्टो यक्षः (यक्षराट) ? / गतः-प्राप्तः, अर्थादारूढः / कम् ? / द्विपं-हस्तिनम् / किंविशिष्टं द्विपम् ? / 'चकितहरिद्विपम्' चकितः-त्रासितः हरिद्विपः-ऐरावणो यस्मात् स तम् / वलाधिक्यादिति भावः / पुनः किंविशिष्ट: ? / ‘कृतवसतिः' कृता-विहिता वसतिः-आश्रमो येन स तथा / कस्मिन् ? | नगे-वृक्षे / किंविशिष्टे नगे ? / 'वटाह्वये' वट इति आह्वयः-अभिधानं यस्य स तस्मिन् / “उदन्तोऽथाह्वयोऽभिधा” इत्यभिधानचिन्तामणिः (का० 2, श्लो० 174) / पुनः किंविशिष्टे ? / 'विपन्नगे' विगता पन्नगा-द्विजिह्वा यत्र स तस्मिन् / पुनः किंविशिष्टः ? / 'प्रभातिमेचकितहरित्' प्रभाकान्तिः तया अतिशयेन मेचकिताः-श्यामीकृताः हरितः-दिशो येन स तथा / “काष्ठाऽऽशा दिक् हरित् ककुप्” इत्यभिधानचिन्तामणिः (का० 2, श्लो० 80) / इति तुरीयवृत्तार्थः / उपेन्द्रवज्राच्छन्दः / / लक्षणं तु पूर्वमेवोद्दिष्टमिति / / 4 / 19 / 76 // ध०. टीका-द्विपमिति / 'द्विपं गतः' गजमारूढः / 'हृदि रमतां' मनसि क्रीडतु / 'दमश्रिया' शमसम्पदा / 'प्रभाति' शोभमाने / 'मे' मम / 'चकितहरिद्विपं' चकितः-त्रस्तो हरिद्विपः-सुरेन्द्रहस्ती यस्य तम् / 'नगे' विटपिनि / 'वटाहये' न्यग्रोधनाम्नि / ‘कृतवसतिश्च' विहितालयश्च / 'यक्षराट' यक्षराजः कपर्दिनामा / 'प्रभातिमेचकितहरित्' प्रभया अतिशयेन मेचकिताः-श्यामीकृताः हरितः-कुकुभो . मेचकस्वरूपा एव येन सः / 'विपन्नगे' विगतसर्प / द्विपं गतो नगे कृतवसतिश्च यक्षराट मे हृदि रमतामित्यन्वयः // 4 / 19 / 76 // अवचूरिः यक्षराट् कपर्दिनामा मम मनसि रमतां-परिक्रीडताम् / हृदि कथंभूते ? / उपशमलक्ष्म्या प्रभाति-प्रकर्षेण शोभमाने / यक्षराट् किंविशिष्टः ? / चकितः-त्रस्तो हरिद्विप-ऐरावणो यस्मात् तं द्विपंवारणं गतः-प्राप्तः / विपन्नगे-विगतसर्प नगे-वृक्षे वटाभिधाने कृता वसतिः-आलयो येन / प्रभया-कान्त्या अतिमेचकिता-श्यामलीकृता हरितो-दिशो येन सः // 4 / 19 / 76 //