________________ 316 35................. शोभनस्तुति-वृत्तिमाला 20. श्रीमुनिसुव्रतजिनस्तुतयः अथ श्रीमुनिसुव्रतनाथस्य संस्तवनम्जिनमुनिसुव्रतः समवताज्जनतावनतः से मुदितमानवा धनमलोभवतो भवतः। . अवनिविकीर्णमादिषत यस्य निरस्तमनःसमुदितमानबाधनमलो भवतो भवतः // 1 // 77 // __- नर्कुटकम् (7, 10) (1) . ज० वि०-जिनमुनीति / स जिनमुनिसुव्रतः-मुनिसुव्रतनामा जिनः भवतः-युष्मान् भवतः-संसारतः समवतात्-सम्यग् रक्षतु इति क्रियाकारकसम्वन्धः / अत्र ‘समवतात्' इति क्रियापदम् / कः कर्ता ? 'जिनमुनिसुवतः' / कान् कर्मतापन्नान् ? 'भवतः' / कुतः ? 'भवतः' / जिनमुनिसुव्रतः कथंभूतः ? 'जनतावनतः' जनतया-जनसमूहेन अवनतः-प्रणतः / पुनः कथं० ? 'निरस्तमनः समुदितमानबाधनमलः' निरस्ता-अपकीर्णा, मनःसमुदिता-हृदयसमुद्गताः संहिता, वा मानः-गर्वः, बाधनं-बाधा, मलः-कर्मरूपः, ततो निरस्ताः मनःसमुदितमानवाधनमला येन स तथा / स इति तच्छन्दाभिसम्बन्धाद् यच्छब्दमाह-यस्य भगवतः धनं-द्रव्यं समुदितमानवाः-हृष्टनराः आदिषत-गृहीतवन्तः / अत्रापि ‘आदिषत' इति क्रियापदम् / 1. 'समुदित०' इत्यपि पाठः /