________________ श्रीमुनिसुव्रतजिनस्तुतयः 317 के कर्तारः ? ‘समुदितमानवाः' / किं कर्मतापन्नम् ? 'धनम्' / मानवेत्यत्र बवयोरैक्यं यमकवशाज्ज्ञेयम् / धनं कथंभूतम् ? 'अवनिविकीर्णं' भुवि राशीकृतम् / यस्य किं कुर्वतः ? 'भवतः' जायमानस्य / कथंभूतस्य भवतः ? 'अलोभवतः' लोभरहितस्य / दीक्षा कक्षीकुर्वत इति हृदयम् / / ___ अथ समासः-शोभनानि व्रतानि यस्य स सुव्रतः ‘बहुव्रीहिः' / मुनिवत् सुव्रतः मुनि० 'तत्पुरुषः' / यदिवा मुनिश्चासौ सुव्रतश्च मुनि० 'कर्मधारयः' / जिनश्चासौ मुनिसुव्रतश्च जिन० 'कर्मधारयः' / जनतयाऽवनतो जन० 'तत्पुरुषः' / मुदिताश्च ते मानवाश्च मुदित० 'कर्मधारयः' / न लोभवान् अलोभवान् ‘तत्पुरुषः' / तस्य अलोभवतः / अवनौ विकीर्णं अवनि० 'तत्पुरुषः' / मानश्च बाधनं च मलश्च मान० 'इतरेतरद्वन्द्वः' / मनसि समुदिताः मनःसमु० 'तत्पुरुषः' / मनःसमुदिताश्च ते मानबाधनमलाश्च मनःसमु० 'कर्मधारयः' / निरस्ता मनःसमुदितमानबाधनमला येन स निरस्त० 'बहुव्रीहिः' / इति काव्यार्थः / / 77 / / - सि० वृ०-जिनमुनीति / मन्यते जगतस्त्रिकालावस्थामिति मुनिः ‘मनेरुच्च' (उणा० सू० 562) इति ईः / सुष्ठु व्रतानि अस्येति सुव्रतः / मुनिश्चासौ सुव्रतश्च मुनिसुव्रतः / गर्भस्थेऽस्मिन् माता मुनिवत् सुव्रता जाता इति वा मुनिसुव्रतः . / जिनश्चासौ मुनिसुव्रतश्च जिनमुनिसुव्रतः इति ‘कर्मधारयः' / स जिनमुनिसुव्रतः भवतः-युष्मान् भवतः-संसारात् समवतात्-सम्यग् रक्षतु इत्यर्थः / संपूर्वक 'अव रक्षणे' धातोः ‘आशी:प्रेरणयोः' (सा० सू०७०३) कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं तुप् / 'अप्०' (सा० सू० 691) / तुपस्तातङादेशः / तथा च 'समवतात्' इति सिद्धम् / अत्र ‘समवतात्' इति क्रियापदम् / कः कर्ता ? / 'जिनमुनिसुव्रतः' / कान् कर्मतापन्नान् ? / 'भवतः' भवच्छब्दस्य द्वितीयावहुवचनम् / कुतः ? / 'भवतः' भवात् इति भवतः / सार्वविभक्तिकस्तस् / कथंभूतो जिनमुनिसुव्रतः ? / 'जनतावनतः' जनानां समूहो जनता 'ग्रामजनबन्धुसह' इति तल तलन्तं च स्त्रीलिङ्गं भवति, जनतया अवनतः-प्रणतो जनतावनतः / पुनः कथंभूतः ? / 'निरस्तमनःसमुदितमानबाधनमलः' निरस्तादूरीकृता मनःसमुदिताः-हृदये समुद्गताः संहिता वा मानबाधनमला येन स तथा / मानश्च बाधनं च मलश्च मानबाधनमलाः ‘इतरेतरद्वन्द्वः', मनःसमुदिताश्च ते मानबाधनमलाश्च मनःसमुदितमानवाधनमलाः इति 'कर्मधारयः' / तच्छब्दाभिसम्बन्धाद् यच्छन्दमाह-यस्य भगवतो धनं-द्रव्यं 'मुदितमानवाः' मुदिताहर्षिताश्च ते मानवाश्च-माः, आदिषत-गृहीतवन्तः / आयूर्वक 'डुदाञ् दाने' धातोः कर्तरि आत्मनेपदे प्रथमपुरुषबहुवचनम् / 'भूते सिः' (सा० सू० 724) / ‘आतोन्तोदनतः' इत्यन्तस्यातादेशः / “दिबादावट्' (सा० सू०७०७) / 'दादेः' (सा० सू० 1112) इतीत्वम् / 'क्विलात्' (सा० सू० 141) 1. 'ग्रामजनबन्धुभ्यस्तल्' इति पाणिनीये (4 / 2 / 43), सिद्धहेमे तु 'ग्रामजनबन्धुगजसहायात् तल्' (6 / 2 / 28) /