________________ 318 शोभनस्तुति-वृत्तिमाला इति षत्वम् / तथा च 'आदिषत' इति सिद्धम् / अत्र ‘आदिषत' इति क्रियापदम् / के कर्तारः ? / मुदितमानवाः / किं कर्मतापन्नम् ? / धनम् / मानवेत्यत्र बवयोरैक्यं यमकवशादिति ज्ञेयम् / कथंभूतं धनम् ? / 'अवनिविकीर्णं' अवनौ-भुवि विकीर्णं-परिक्षिप्तं, राशीकृतमिति यावत् / ‘कू विक्षेपे' / 'ऋत इर्' (सा० सू० 820) / 'य्वोर्विहसे' (सा० सू० 316) इति दीर्घः / यस्य किं कुर्वतः ? / 'भवतः' जायमानस्य / कीदृशस्य भवतः ? 'अलोभवतः' न लोभो-गाय विद्यते यस्य स अलोभवान् तस्य अलोभवतः / दीक्षां कक्षीकुर्वत इत्यर्थः / / 77 / / (3) सौ० वृ०-यः कर्मशत्रुजयेन मल्लो भवति स मुनिवत् सुव्रतो भवति / तथा गर्भस्थे भगवति जननी सुव्रता जाता / अनेन सम्वन्धेनायातस्य विंशतितमश्रीमुनिसुव्रतजिनस्य स्तुतिव्याख्यानं व्याख्यायतेजिनमुनीति / स जिनमुनिसुव्रतः-मुनिसुव्रतनामा तीर्थकृत् भवतः-युष्मान् भवतः-संसारात् (समवतात् इत्यन्वयः / 'समवतात्' इति क्रियापदम्। कः कर्ता ? / 'जिनमुनिसुव्रतः' / 'समवतात्' संरक्षतु / कान् कर्मतापन्नान् ? / 'भवतः' / कुतः ? / 'भवतः') / किंविशिष्टः जिनमुनिसुव्रतः ? / जनतया-जनसमूहेन अवनतः-प्रणतः 'जनतावनतः' / पुनः किंविशिष्टः जिनमुनिसुव्रतः ? / निरस्तः-निराकृतः मनसि-चित्ते समुदितः-उदयं प्राप्तः मानः-अहंकारः बाधनं-पीडा (मलः-) कर्ममलो येन स 'निरस्तमनःसमुदितमानवाधनमलः' / यमकत्वादत्र बवयोरैक्यम् / किंविशिष्टान् भवतः ? / न विद्यते लोभःचतुर्थकषायो येषां ते अंलोभवन्तः तान् ‘अलोभवतः' / पुनः किंविशिष्टः जिनमुनिसुव्रतः ? / 'सः' स-प्रसिद्धः / तच्छब्दो यच्छन्दमपेक्षते / यत्तदोर्नित्यसम्बन्धः / स कः ? / यस्य जिनमुनिसुव्रतस्य धनंद्रव्यं मुदितमानवा-हृष्टजना आदिषत इत्यन्वयः / ‘आदिषत' इति क्रियापदम् / के कर्तारः ? | 'मुदितमानवाः' / 'आदिषत' गृहीतवन्तः / किं कर्मतापन्नम् ? / 'धनम्' / कस्य ? / 'यस्य' जिनमुनिसुव्रतस्य / किंविशिष्टं धनम् ? / 'अवनिविकीर्ण' अवनौ-पृथिव्यां विकीर्ण-विस्तारितम् / किंविशिष्टस्य यस्य ? / 'भवतः' वार्षिकदानोद्यतजायमानस्य धनं समुदितमानवैर्गृहीतम् / इति पदार्थः / / अथ समासः-जयति रागादीन् शत्रूनिति जिनः, मनुते तत्त्वमिति मुनिः, सुष्ठु शोभनानि व्रतानि यस्य स सुव्रतः, मुनिश्चासौ सुव्रतश्च मुनिसुव्रतः, मुनिसुव्रतश्चासौ जिनश्च मुनिसुव्रतजिनः (?) / सम्यक् प्रकारेण अवतात् समवतात् / जनानां समूहो जनता, जनतया अवनतः जनतावनतः / मुत् सञ्जाता येषां ते मुदिताः, मुदिताश्च ते मानवाश्च मुदितमानवाः / नास्ति लोभो येषां ते अलोभवन्तः, तान् अलोभवतः / अवनौ विकीर्णं अवनिविकीर्णं, तद् अवनिविकीर्णम् / मानश्च बाधनं च मलश्च मानबाधनमलाः, समुदिताश्च ते मानबाधनमलाश्च समुदितमानबाधनमलाः, मनसि समुदिताः मानबाधनमलाः