________________ श्रीमुनिसुव्रतजिनस्तुतयः 319 मनःसमुदितमानबांधनमलाः, निरस्ता मनःसमुदितमानबाधनमला येन स निरस्तमनःसमुदितमानबाधनमलः / इति प्रथमवृत्तार्थः / इति सप्तदशवर्णमयी विषमाक्षरबृहत्तिका(?)च्छन्दसा स्तुतिरियम् / / 77 / / (4) दे० व्या०-जिनमुनीति / च जिनमुनिसुव्रतो भवतो-युष्मान् भवतः-संसारात् समवताद्-रक्षताद् इत्यन्वयः / 'अव रक्षणे' धातुः / 'समवताद्' इति क्रियापदम् / कः कर्ता ? | 'जिनमुनिसुव्रतः' जिनश्चासौ मुनिसुव्रतश्चेति ‘कर्मधारयः' / कान् कर्मतापन्नान् ? / भवतः / किंविशिष्टो जिनमुनिसुव्रतः ? | 'जनतावनतः' जनानां समूहो जनता तया अवनतः-प्रणतः / पुनः किंविशिष्ट: ? / 'निरस्तमनःसमुदितमानवाधनमलः' मानः-अहंकृतिः, बाधनं बाधा-पीडा, मलो-दुरध्यवसायः एतेषां पूर्वं 'द्वन्द्वः', मनसि समुदिताः-उदयं प्राप्ताः मनःसमुदिताः, ततः ते च ते मानवाधनमलाश्चेति ‘कर्मधारयः', ततः निरस्ताः-परिक्षिप्ताः मनःसमुदितमानबाधनमला येनेति 'तृतीयाबहुव्रीहिः' / यत्तदोर्नित्याभिसम्बन्धाद् यस्य मुनिसुव्रतस्य धनं-द्रव्यं मुदितमानवा आदिषत-गृहीतवन्तः / ‘आदिषत' इति क्रियापदम् / के कर्तारः ? / 'मुदितमानवाः' मुत् जाता येषां ते मुदिताः, ते च ते मानवाश्चेति 'कर्मधारयः' / किं कर्मतापन्नम् ? / धनम् / कस्य ? / 'यस्य' मुनिसुव्रतस्य / किं कुर्वतो जिनस्य ? / 'अलोभवतो भवतः' अलोभिनो जायमानस्य, दीक्षां ग्रहीतुकामत्वात् / किंविशिष्टं धनम् ? / 'अवनिविकीर्णम्' अवनौपृथिव्यां विकीर्ण-विक्षिप्तम् / / इति प्रथमवृत्तार्थः / / 77 / / (5). ध० टीका-ज़िनमुनीति / 'जिनमुनिसुव्रतः' मुनिसुव्रतनामा जिनः / ‘समवतात्' संरक्षतु / 'जनतावनतः' जनतया-जनसमूहेन अवनतः-प्रणतः / 'समुदितमानवाः' हृष्टाः पुमांसः / 'धनं' द्रव्यम् / 'अलोभवतो भवतः' लोभेनायुक्तस्य सतः / अवनिविकीर्णं' भूमौ राशीकृतम् / 'आदिषत' गृहीतवन्तः / 'यस्य' भगवतः / 'निरस्तमनःसमुदितमानबाधनमलः' बाधनं-बाधा निरस्ता-अपकीर्णा मनःसमुदिताहृदि समुद्रताः संहता वा मानश्च वाधनं च मलाश्च येन सः / 'भवतः' युष्मान् / 'भवतः' संसारात् / स जिनमुनिसुव्रतो भवतो भवतः समवतात् यस्य धनं समुदितमानवा आदिषतेति सम्वन्धः / / 77 / / अवचूरिः जिनमुनिसुव्रतो भवतो-युष्मान् भवतः-संसारात् समवतात्-संरक्षतु / कथंभूतः ? | जनतया-जनसमूहेनावनतः / समुदिताः-सहर्षा ये मानवा-मनुष्या अवनिविकीर्णं-भूमौ राशीकृतं धनं