________________ 320 शोभनस्तुति-वृत्तिमाला कनकादिकं यस्यालोभवतः-अलोभिनो भवतः-सतः / दीक्षा ग्रहीतुकामस्येत्यर्थः / आदिषत-आददत / जिनः कथंभूतः ? / निरस्ता-अपकीर्णा मनःसमुदिता-हृदि समुत्पन्ना संहता वा मानो बाधनं-पीडा मलःकर्म च येन / / 77 / / दायप्रणामः प्रणमत तं जिनव्रजमपारविसारिरजो दलकमलानना महिमधाम भयासमरुक् / यमतितरां सुरेन्द्रवरयोषिदिलामिलनो दल मला ननाम हिमधामभया समरुक // 2 // 78 // ज० वि०-प्रणमतेति / भो भव्याः ! यूयं तं जिनवज तीर्थङ्करसमूहं प्रणमत-नमत इति क्रियाकारकयोजना / अत्र ‘प्रणमत' इति क्रियापदम् / के कर्तारः ? 'यूयम्' / कं कर्मतापन्नम् ? 'जिनवजम्' / कथंभूतं जिनवजम् ? 'महिमधाम' महत्त्वस्थानम् / पुनः कथंभूतम् ? 'भयासं' भयं अस्यति-क्षिपतीति भयासस्तम् / तमिति तच्छब्दसाहचर्याद् यच्छब्दमाह-यं जिनवजं सुरेन्द्रवरयोषित्देवेन्द्रस्य प्रधानभूता स्त्री शची अतितराम्-अत्यर्थं ननाम-प्रणतवती / अत्रापि 'ननाम' इति क्रियापदम् / का की ? 'सुरेन्द्रवरयोषित्' / कं कर्मतापन्नम् ? 'यम्' / कथंभूता सुरेन्द्रवरयोषित् ? ‘अपारविसारिरजोदलकमलानना' अपाराणि-अपर्यन्तानि विसारीणि-प्रसरणशीलानि रजोदलानि-परागकणा यस्मिन् तादृशं यत् कमलं-पद्मं तद्वदाननं-मुखं यस्याः सा तथा / पुनः कथं० ? अरुक्' नीरोगा / पुनः कथं० ? 'इलामिलनोदलकमला' इलामिलनेन-क्षितिघट्टनेन उद्गतः अलकेषु-कुरलेषु मलः-रजो यस्याः सा तथा / अनेन विशेषणेन भक्तेः प्रावल्यमसूचि / पुनः कथं ? 'समरुक्' सशरुचिः / कया ? हिमधामभया' हिमधामा-चन्द्रः तस्य भया-दीप्त्या / / अथ समासः-जिनानां व्रजो जिनवजः 'तत्पुरुषः' / तं जिन० / रजसां दलानि रजोद० 'तत्पुरुषः / विसारीणि च तानि रजोदलानि च विसारि० 'कर्मधारयः' / अपाराणि विसारिरजोदलानि यत्र तदपार० 'बहुव्रीहिः' / अपारविसारिरजोदलं च तत् कमलं च अपार० 'कर्मधारयः' / अपारविसारिरजोदलकमलवद् आननं यस्याः सा अपार० ‘बहुव्रीहिः' / महतः भावः महिमा / महिम्नो