________________ श्रीमुनिसुव्रतजिनस्तुतयः 321 धाम महिम० 'तत्पुरुषः' / तद् महिम० / भयमस्यतीति भयासः 'तत्पुरुषः / तं भयासम् / न विद्यन्ते रुजो यस्याः सा अरुक् ‘बहुव्रीहिः' / सुराणामिन्द्रः सुरेन्द्रः 'तत्पुरुषः' / वरा चासौ योषित् च वरयोषित् 'कर्मधारयः' / सुरेन्द्रस्य वरयोषित् सुरे० 'तत्पुरुषः' / इलायां मिलनं इलामिलनं 'तत्पुरुषः' / अलकेषु मलः अलकमलः 'तत्पुरुषः' / उद्गतोऽलकमलो यस्याः सा उदल० 'बहुव्रीहिः' / इलामिलनेन उदलकमला इलामि० तत्पुरुषः' / हिमानिधामानि यस्य स हिमधामा ‘बहुव्रीहिः' / हिमधाम्नः भा हिम० 'तत्पुरुषः' / तया हिम० / समा रुक् यस्याः सा समरुक् ‘बहुव्रीहिः' / इति काव्यार्थः / / 78 / / . (2) सि० वृ०-प्रणमतेति / भो भव्याः ! यूयं तं जिनव्रज-तीर्थंकरसमूहं प्रणमत-नमतेत्यर्थः / प्रपूर्वक‘णम प्रहीभावे' धातोः ‘आशीःप्रेरणयोः' (सा० सू० 703) कर्तरि परस्मैपदे मध्यमपुरुषबहुवचनम् / अत्र ‘प्रणमत' इति क्रियापदम् / के कर्तारः ? / यूयम् / कं कर्मतापन्नम् ? / 'जिनवजं' जिनानां व्रजो जिनवजस्तम् / कथंभूतं जिनवजम् ? / 'महिमधाम' महिम्नो-महत्त्वस्य धाम-स्थानम् / धीयते इति धाम / 'डुधाञ् धातोः' मनिन् / “धाम देशे गृहे रश्मी, चिह्न स्थानापराधयोः” इति विश्वः / पुनः किंविशिष्टम् ? / 'भयासं' भयं-भीतिं अस्यति-क्षिपतीति भयासः तं भयासं, भयनाशकमित्यर्थः / तमिति तच्छब्दसाहचर्याद् यच्छब्दमाह-यं जिनवजं 'सुरेन्द्रवरयोषित्' सुरन्ति-ऐश्वर्यमनुभवन्तीति सुराः 'सुर प्रसवैश्वर्ययोः' ‘इगुपधज्ञाप्रीकिरः कः' (पा० अ०. 3, पा० 1, सू० 135), क्षीरादौ(दु)त्था सुरा एषा अस्ति इत्यागमः ‘अर्शआदिभ्योऽच्' (पा० अ० 5, पा० 2, सू० 127) / सुरापरिग्रहाद् वा सुराः / तथा च रामायणे "सुरापरिग्रहाद् देवाः, सुराख्या इति विश्रुताः / अपरिग्रहणात् तस्या, दैतेयाश्चासुराः स्मृताः // 1 // " - इति तथेति / सुष्ठुराजन्त इति वा ‘राज दीप्तौ' 'अन्येभ्योऽपि' (पा० अ० 3, पा० 3, सू० 130) तिङ् / यद्वा सुन्वन्ति - खण्डयन्ति सेवकदुःखमिति वा 'षुञ् अभिषवे' अभिषवः-लपनं पीडनं स्नानसन्धानादिः (?) / सुन्वन्ति-अभिषुण्वन्ति समुद्रमिति वा ‘सुसूधागृधिभ्यः क्रन्' (उणा० सू० 182) इति क्रन् / भक्तदन्तं (?) सुष्ठु रान्ति-आददते वा ‘रा दाने' 'आतोऽनुपसर्गे कः' (पा० अ० 3, पा० 2, सू० 3) सुराः / इन्दति-परमैश्वर्यं अनुभवतीति इन्द्रः / ‘इदि परमैश्वर्य' 'ऋजेन्द्राग्रवज्रविप्रक्रुप्र(ब)चुप्र(ब)क्षुरखुरभद्रोग्रभेरभेलशुक्रतीववर्णेर (शुक्लगौरवन्देरा)मालाः' (उणा० सू० 186) इति सूत्रेण रन्१. 'पुर ऐश्वर्यदीप्त्योः' इति पाणिनीय धातुपाठे / 2. 'स्नानं सुरासन्धानं च' इति प्रतिभाति /