________________ 322 शोभनस्तुति-वृत्तिमाला प्रत्ययान्तो निपातितः / योषति-गच्छति पुरुषमिति योषित् / सुराणां-देवानामिन्द्रः सुरेन्द्रः-शक्रः तस्या वराप्रधाना सा चासौ योषिच्च सुरेन्द्रवरयोषित् / 'युष भोजने' सौत्रः ‘हसृरुहियुषिभ्य इतिः' (उणा० सू० 97) इति इत्प्रत्ययः / देवेन्द्रस्य प्रधानभूता स्त्री शचीत्यर्थः / अतितरां-अत्यर्थं ननाम-प्रणतवतीत्यर्थः / णमधातोः कर्तरि परोक्षे परस्मैपदे प्रथमपुरुषैकवचनम् / ‘णम प्रहृत्वे' अग्रे णप् / ‘आदेः ष्णः स्वः' (सा० सू० 748) इति णकारस्य नकारः / 'द्विश्च' (सा० सू०७१०) इति द्विर्भावः / ‘अत उपधायाः' (सा० सू० 757) इति वृद्धिः / तथा च 'ननाम' इति सिद्धम् / अत्र 'ननाम' इति क्रियापदम् / का की ? / 'सुरेन्द्रवरयोषित्' सुराणामिन्द्रः-शक्रः तस्य वरा-प्रधाना सा चासौ योषिच्च सुरेन्द्रवरयोषित् / कं कर्मतापन्नम् ? / यम् / कथंभूता सुरेन्द्रवरयोषित् ? 'अपारविसारिरजोदलकमलानना' अपाराणिइयत्तानवच्छिन्नानि विसारीणि-प्रसरणशीलानि यानि रजांसि-परागरेणूनि दलानि-पर्णानि च, अथवा रजोदलानि परागकणा एव यस्मिन् तादृशं यत् कमलं-पद्मं तदिव आनन-मुखं यस्याः सा तथा / रजांसि च दलानि च रजोदलानि इति 'द्वन्द्वः', अथवा रजसा दलानि रजोदलानीति 'तत्पुरुषः', विसारीणि च तानि रजोदलानि च विसारिरजोदलानीति 'कर्मधारयः', अपाराणि विसारिरजोदलानि च अपारविसारिरजोदलानीति कर्मधारयः', अपारविसारिरजोदलानि यस्मिन् तत् अपारविसारिरजोदलं इति ‘बहुव्रीहिः', अपारविसारिरजोदलं च तत् कमलं च अपारविसारिरजोदलकमलमिति 'कर्मधारयः', अपारविसारिरजोदलकमलमिव आननं यस्येति ‘बहुव्रीहिकर्मधारयौ (?)' | पुनः कथंभूता ? / 'अरुक्' न विद्यते रुक-रोगो यस्याः सा तथा / पुनः कथंभूतां ? / 'इलामिलनोदलकमला' इलायाः-पृथिव्याः मिलनंसंघट्टनं तेन उद्गतो-विलग्नः अलकेषु-चूर्णकुन्तलेषु मलो यस्याः सा. तथा / अनेन विशेषणेन तस्या भक्त्यतिशयो ध्वनितः / पुनः कथंभूता ? / 'समरुक्, समा-तुल्या रुक्-कान्तिर्यस्याः सा तथा। कया ? | 'हिमधामभया' हिमं-शीतलं धाम-तेजो यस्य स हिमधामा-चन्द्रः तस्य भा-प्रभा तया हिमधामभया / / 78 / / सौ० वृ०-प्रणमतेति / भो भव्याः ! तं जिनवजं-तीर्थंकरसमूहं प्रणमत इत्यन्वयः / 'प्रणमत' इति क्रियापदम् / के कर्तारः ? | 'यूयम्' / 'प्रणमत' प्रणामं कुरुत / कं कर्मतापन्नम् ? / 'जिनवजम्' / किंविशिष्टं जिनवजम् ? / 'महिमधाम' महत्त्वगृहम् / पुनः किंविशिष्टं जिनवजम् ? / भयानिइहलोकपरलोकादीनि अस्यति-क्षिपतीति भयासः तं 'भयासम्' / पुनः किंविशिष्टं जिनव्रजम् ? | 'अरुक्' रोगरहितमित्यर्थः / पुनः किंविशिष्टं जिनव्रजम् ? / 'तं' प्रसिद्धम् / प्रकान्तप्रसिद्धार्थं तच्छब्दो यच्छब्दमपेक्षते / तं कम् ? / सुरेन्द्रवरयोषिद्-इन्द्रप्रधानशची यं जिनवजं अतितरां ननाम इत्यन्वयः / 'ननाम' इति क्रियापदम् / का कर्ची ? / 'सुरेन्द्रवरयोषित्' / 'ननाम' प्रणमति स्म / कं कर्मतापन्नम् ? / 'यं' जिनव्रजम् / कथम् ? / 'अतितराम्' / किंविशिष्टा सुरेन्द्रवरयोषित् ? / अपाराणि-अपर्यन्तानि