________________ श्रीमुनिसुव्रतजिनस्तुतयः 323 विसारीणि-विसरणशीलानि रजांसि-परागा येषु तानि तादृशानि दलानि-पत्राणि येषु तानि कमलानिपद्मानि तद्वत् सुगन्धि आननं यस्याः सा ‘अपारविसारिरजोदलकमलानना' / पुनः किंविशिष्टा सुरेन्द्रवरयोषित् ? / इला-पृथ्वी तस्या मिलनं-सङ्गमस्तेन ऊर्वीभूता अलकाः-केशास्तेषां मलो यस्याः सा 'इलामिलनोदलकमला' / भक्तिबाहुल्येन पृथिव्यां शिरोनमनत्वादित्यर्थः / पुनः किंविशिष्टा सुरेन्द्रवरयोषित् ? / 'समरुक्' तुल्यकान्तिः / कया सह ? / हिमधामा-चन्द्रस्तस्य भा तया ‘हिमधामभया' / इति पदार्थः / / ___अथ समासः-जिनानां व्रजः जिनवजः, तं जिनवजम् / (न) पाराणि अपाराणि, विसरणशीलानि विसारीणि, अपाराणि च तानि विसारीणि अपारविसारीणि, अपारविसारीणि च तानि रजांसि च अपारविसारिरजांसि, अपारविसारिरजांसि च तानि दलानि च अपारविसारिरजोदलानि, अपारविसारिरजोदलानि च तानि कमलानि च अपारविसारिरजोदलकमलानि, अपारविसारिरजोदलकमलवद् आननं यस्याः सा अपारविसारिरजोदलकमलानना / महिम्नां धाम महिमधाम, तद् महिमधाम / भयानि अस्यतीति भयासः, तं भयासम् / न विद्यन्ते रुजः-रोगा यस्य सः अरुक् / सुराणां इन्द्रः सुरेन्द्रः, वरा चासौ योषिच्च वरयोषित्, सुरेन्द्रस्य वरयोषित् सुरेन्द्रवरयोषित् / अत्र जातावेकवचनम् / इलायां मिलनं इलामिलनं, [इलामिलने उत्-उद्गतः] अलकानां मलः अलकमलः, इलामिलनेन उत्-प्रकटीभूतः अलकमलो यस्याः सा इलामिलनोदलकमला / हिमवद् धाम यस्याः सा हिमधामा, हिमधाम्नो भा हिमधामभा, तया हिमधामभया / समा-सदृशी रुग् यस्याः सा समरुक् / इति द्वितीयवृत्तार्थः / / 78 / / ...दे० व्या०-प्रणमतेति / तं 'जिनव्रजम्' जिनानां-तीर्थंकराणां व्रजं-समूहं यूयं प्रणमतनमस्कारविषयींकुरुत इत्यन्वयः / ‘णम प्रह्वीभावे' धातुः / ‘प्रणमत' इति क्रियापदम् / के कर्तारः ? | यूयम् / किं कर्मतापन्नम् ? | जिनवजम् / किंविशिष्टं जिनवजम् ? / 'महिमधाम' महिमा-माहात्म्यं तस्य धाम-गृहम् / “धामागारं निशान्तं च” इत्यभिधानचिन्तामणिः (का० 4, श्लो० 58) / पुनः किंविशिष्टम् ? / 'भयासं' भयं अस्यति-क्षिपतीति तम् / पुनः किंविशिष्टम् ? / 'अरुक्' नास्ति रुक्रोगो यस्य तम् (?) / यत्तदोर्नित्याभिसम्बन्धाद् यं जिनवजं अतितराम्-अतिशयेन यथा भवति तथा सुरेन्द्रवरयोषित्-इन्द्रमहिषी ननाम-अनंसीत् / [प्र]णम प्रह्वीभावे' धातुः / 'ननाम' इति क्रियापदम् / का की ? / 'सुरेन्द्रवरयोषित्' सुराणां इन्द्रः सुरेन्द्रः इति षष्ठीतत्पुरुषः', ततः सुरेन्द्रस्य वरा चासौ योषिच्चेति 'कर्मधारयः' / “योषा योषिद्विशेषास्तु” इत्यभिधानचिन्तामणिः (का० 3, श्लो० 168) / किंविशिष्टा सुरेन्द्रवरयोषित् ? / 'अपारविसारिरजोदलकमलानना' अपाराणि-अपर्यन्तानि विसारीणि