________________ 324 शोभनस्तुति-वृत्तिमाला प्रसरणशीलानि रजांसि-परागाः दलानि-पर्णानि च यस्य एवंविधं यत् कमलं-तामरसं तद्वदाननं-मुखं यस्याः सा तथा / “बहँ पर्णं छदं दलं” इत्यभिधानचिन्तामणिः (का० 4, श्लो० 189) / पुनः किंविशिष्टा ? / ‘इलामिलनोदलकमला' इलायाः-पृथिव्याः मिलन-सम्पर्कः तेन उत्-उत्थितः अलकेषुकुन्तलेषु मलो यस्याः सा तथा / पुनः किंविशिष्टा ? / 'समरुक्' समा-सदृशा रुक्-कान्तिः यस्याः सा तथा / कया ? | 'हिमधामभया' हिमधामा-चन्द्रः तस्य भा-कान्तिस्तया / एतेन शरीरस्य सौन्दर्यातिशयः सूचितः / इति द्वितीयवृत्तार्थः / / 78 / / ध० टीका-प्रणमतेति / 'प्रमणत' नमत / 'तम्' 'जिनवज' अर्हत्सन्दोहम् / 'अपारविसारिरजोदलकमलानना' अपाराणि-अपर्यन्तानि विसारीणि-प्रसरणशीलानि रजोदलानि यस्य तद् अपारविसारिरजोदलं तच्च तत् कमलं च तद्वद् आननं-मुखं यस्याः सा / 'महिमधाम' महत्त्वस्य स्थानम् / 'भयासं' भयमस्यति यस्तम् / 'अरुक्' नीरोगः / 'यम्' / 'अतितरां' अत्यर्थम् / 'सुरेन्द्रवरयोषित्' सुरेन्द्रस्य वरा-प्रधानभूता योषिद्-अङ्गना शची / 'इलामिलनोदलकमला' इलामिलनेन-क्षितिघट्टनेन उद्गतः अलकेषु-कुरलेषु मलो-रजो यस्याः सा / 'ननाम' प्रणतवती / हिमधामभया' हिमधामा-मृगाङ्कस्तस्य भया-दीप्त्या / ‘समरुक्’ सदृशरुचिः / तं जिनवजं प्रणमत यं सुरेन्द्रवरयोषित् ननामेति योगः / / 78 // अवचूरिः प्रणमत-नमत तं जिनवजम्-अर्हत्सन्दोहम् / कथंभूतम् ? / भयासं-भयक्षयकारकम् / सुरेन्द्रवरयोषित्-इन्द्राणी यं ननाम-अनंसीत् / कथंभूता ? / अपाराणि-अपर्यन्तानि प्रसरणशीलानि रजांसि दलानि च यस्य तच्च तत् कमलं च तद्वत् सुगन्धमाननं-मुखं यस्याः / महिम्नो धाम-गृहम् / जिनवजविशेषणमेतत् / हिमधामा-चन्द्रस्तस्य भया-कान्त्या समाना रुग्-रुचिर्यस्याः सा / इलामिलनेन-क्षितिघट्टनेन उद्गतोऽलकेषु-केशेषु मलो यस्याः सा / / 78 / / सिद्धान्तस्तवनम्त्वमवनताञ्जिनोत्तप्कृतान्त ! भवाद् विदुषो ऽव सदनुमानसङ्गमन ! याततमोदयितः /