________________ श्रीमुनिसुवतंजिनस्तुतयः 325 . शिवसुखसाधकं स्वभिदधत् सुधियां चरणं वसदनुमानसं गमनयातत ! मोदयितः ! // 3 // 79 // - नर्कु० ज० वि०-त्वमवेति / हे जिनोत्तमकृतान्त ! तीर्थकृत्सिद्धान्त ! त्वं भवान् अवनतान्-प्रणतान् विदुषः-सम्यग्ज्ञानवतः भवात्-संसारात् अव-रक्षेति क्रियाकारकसण्टङ्कः / अत्र ‘अव' इति क्रियापदम् / कः कर्ता ? 'त्वम्' / कान् कर्मतापन्नान् ? विदुषः' / कथंभूतान् ? 'अवनतान्' / कस्मात् ? भवात् / कथंभूतस्त्वं ? 'याततमोदयितः' याततमसः-गतमोहाः मुनय इत्यर्थः, तेषां दयितः-प्रियः / त्वं किं कुर्वन् ? 'स्वभिदधत्' सुष्ठु अभिदधानः / किं कर्मतापन्नम् ? 'चरणं' अनुष्ठानम् / कथंभूतम् ? 'शिवसुखसाधकं' मुक्तिसुखावर्जकम् / पुनः किं कुर्वन् ? 'वसत्' तिष्ठत् / कथम् ? 'अनुमानसं' मानसमनुलक्षीकृत्य / केषाम् ? 'सुधियां' धीमताम् / अवशिष्टानि सिद्धान्तस्य सम्बोधनानि, तद्व्याख्या त्वेवम्-हे 'सदनुमानसङ्गमन !' सद्-विद्यमानं शोभनं वा अनुमानसङ्गमनं-अनुमानस्य सङ्गतिर्यस्य स तथा तत्सम्बो० हे सदतु० / हे 'गमनयातत !' गमाः-सदृशपाठाः नयाः-नैगमादयः तैः आतत !-विस्तीर्ण ! / हे 'मोदयितः !' मोदयतीति मोदयिता, तत्सम्बो० हे मोदयितः ! / / .. अथ समासः-जिनानां जिनेषु वा उत्तमाः जिनोत्तमाः 'तत्पुरुषः' / जिनोत्तमानां कृतान्तः जिनोत्तम० 'तत्पुरुषः' / तत्सम्बो० हे जिनोत्त० / अनुमानस्य सङ्गमनं अनुमा० 'तत्पुरुषः' / सद् अनुमानसङ्गमनं यस्य स सदनु० 'तत्पुरुषः' / तत् सम्बो० हे सदनु० / यातं तमो येषां ते यात० 'बहुव्रीहिः' / याततमसां दयितः यात० 'तत्पुरुषः' / शिवस्य सुखं शिव० 'तत्पुरुषः' / शिवसुखस्य साधकं शिव० तत्पुरुषः / तद् शिव० / मानसमनु अनुमानसं 'अव्ययीभावः' / गमाश्च नयाश्च गमनयाः 'इतरेतरद्वन्द्वः' / गमनयैः आततः गम० 'तत्पुरुषः' / तत्सम्बो० हे गम० / इति काव्यार्थः / / 79 / / सि० वृ०-त्वमवेति / जिनेषु उत्तमाः-प्रधानाः तीर्थङ्कराः तेषां कृतान्तो-राद्धान्तः तस्य संबोधनं हे जिनोत्तमकृतान्त ! त्वं भवान् अवनतान्-प्रणतान् विदुषः-पण्डितान् भवात्-संसारात् अव-रक्षेत्यर्थः / - 'अव रक्षणे' धातोः ‘आशीःप्रेरणयोः' (सा० सू० 703) कर्तरि परस्मैपदे मध्यमपुरुषैकवचनम् / क्रियायाः साधनिका तु पूर्ववत् / अत्र ‘अव' इति क्रियापदम् / कः कर्ता ? | त्वम् / कान् कर्मतापन्नान् ? | 'विदुषः' विदन्तीति विद्वांसः तान् विदुषः / 'विदे' शतुर्वसुः' (पा० अ०७, पा० 1, सू० 36), 'वसोर्व उः' (सा० सू० 302) इति वकारस्योकारः, 'अम्शसोरस्य' (सा० सू० 126) इत्यकारलोपे, 1. , अत्र 'बहुव्रीहि' रित्यावश्यकम्, 'तत्पुरुष' इत्युल्लेखो भ्रम एव /