________________ 326 शोभनस्तुति-वृत्तिमाला 'क्विलात्' (सा० सू० 141) इति षत्वं, 'वसोः सम्प्रसारणं' (पा० अ०६, पा० 4, सू० 131) इति वकारस्योकारः पूर्वरूपत्वं चाकारस्य / कथंभूतान् विदुषः ? / अवनतान् / कस्मात् ? भवात् / कथंभूतस्त्वम् ? / 'याततमोदयितः' यातं-गतं तमो-मोहो येषां ते याततमा-मुनयः तेषां दयितो-वल्लभः, अज्ञानवर्जितानां प्रिय इत्यर्थः / त्वं किं कुर्वन् ? / 'स्वभिदधत्' सुष्ठु अभिदधानः / किं कर्म ? | चरणंअनुष्ठानम् / कथंभूतम् ? 'शिवसुखसाधकं' शिवं-निःश्रेयसं तस्य सुख-शर्म तस्य साधकं-जनकम् / पुनः किं कुर्वत् ? / वसत्-तिष्ठत् / कथम् ? / 'अनुमानसं' मानसमनुलक्षीकृत्य, मानसं मानसं अनु इति अनुमानसं ‘अव्ययीभावः' / केषाम् ? / 'सुधियां' सुष्ठु-शोभना धीर्येषां ते सुधियः तेषाम् / अवशिष्टानि सिद्धान्तस्य सम्बोधनपदानि, तद्व्याख्या चैवम्-हे ‘सदनुमानसङ्गमन !' सद्-विद्यमानं शोभनं वा यद् अनुमानं तस्य सङ्गमनं-सङ्गतिर्यस्मिन् यस्य वा स तथा तस्य संबोधनं हे सद० / “लिङ्गपरामर्शोऽनुमानम्” इति मणिकृतः / “परामृश्यमाणं लिङ्गमनुमानम्” इत्युदयनाचार्याः / हे 'गमनयातत !' गमाः-सदृशपाठाः, नया-नैगमादयः, गमाश्च नयाश्च गमनयाः ‘इतरेतरद्वन्द्वः', गमनयैः आ-समन्तात् ततो-विस्तृतो गमनयाततः, तस्य संबोधनं० हे गम० ! / हे 'मोदयितः !' मोदयतीति मोदयिता, तस्य संबोधनं हे मोदयितः ! / / 79 / / सौ० वृ०-त्वमवेति / हे जिनोत्तमकृतान्त !-हे तीर्थकरप्रधानसिद्धान्त ! / हे सदनुमानसङ्गमन ! - हे प्रधानानुमानप्रसङ्ग ! / हे गमाः-सदृशपाठाः नया-नैगमाद्यास्तैः कृत्वा आतत !-विस्तीर्ण ! हे 'गमनयातत !' मोदयतीति मोदयिता तस्य सं० हे मोदयितः !-हे हर्षकारक ! / त्वं भवात्-संसारात् विदुषःपण्डितान् अव इत्यन्वयः / ‘अव' इति क्रियापदम् / कः कर्ता ? ! त्वम्' / 'अव' रक्ष / कान् कर्मतापन्नान् ? / 'विदुषः' / कस्मात् ? / 'भवात्' / किंविशिष्टान् विदुषः ? / 'अवनतान्' प्रणतान् / किंविशिष्टस्त्वम् ? / यातं-गतं तमः-अज्ञानं येषां ते याततमसो-मुनयः तेषां दयितो-वल्लभो 'याततमोदयितः' / पुनस्त्वं किं कुर्वन् ? / 'वसत्' (?) वासं कुर्वन् / किं कर्मतापन्नम् ? / 'अनुमानसं' मानसं-चित्तं अनु-लक्ष्यीकृत्य / केषाम् ? / 'सुधियां' पण्डितानाम् / पुनस्त्वं किं कुर्वन् ? / स्वभिदधत्' सुष्ठु-शोभनं अभिदधत्-कथयत् / कं कर्मतापन्नम् ? / 'चरणं' चारित्रम् / किंविशिष्टं चरणम् ? / शिवोमोक्षः तस्य सुखं स्वाभाविकं अचलमक्षयमव्याबाधरूपं तस्य साधकं-परमकारणम् / एतादृश हे जिनोत्तमकृतान्त ! त्वमव-रक्ष / इति पदार्थः / / अथ समासः-जिनामुत्तमः जिनोत्तमः, जिनोत्तमस्य कृतान्तः जिनोत्तमकृतान्तः, तस्य सं० हे जिनोत्तमकृतान्त ! / विदन्ति ते विद्वांसः, तान् विदुषः / सत् च तद् अनुमानं (च) सदनुमानं,