________________ श्रीमुनिसुव्रतजिनस्तुतयः 327 सदनुमानस्य सङ्गमनं-मिलनं यस्य स सदनुमानसङ्गमनः, तस्य सं० हे सदनुमानसङ्गमन ! / यातं तमो येषां ते याततमसः, याततमसां दयितो याततमोदयितः / शिवस्य सुखानि शिवसुखानि, शिवसुखानां साधकं शिवसुखसाधकं, तद् शिवसुखसाधकम् / सुष्ठु-शोभनं अभिदधत् स्वभिदधत् / सु-शोभना धीर्येषां ते सुधियः, तेषां सुधियाम् / चर्यते-संसारतीरं प्राप्यते अनेन इति चरणम् / मानसं अनु-लक्षीकृत्य इत्यनुमानसम् / गमाश्च नयाश्च गमनयाः, गमनयैः आततः गमनयाततः, तस्य सं० हे गमनयातत ! / मोदयतीति मोदयिता, तस्य सं० हे मोदयितः ! / इति तृतीयवृत्तार्थः / / 79 / / (4) दे० व्या०–त्वमवेति / हे 'जिनोत्तमकृतान्त !' जिनोत्तमाः-तीर्थंकराः तेषां कृतान्तः-सिद्धान्तः, तस्यामन्त्रणम् / त्वं भवात्-संसारात् विदुषः-पण्डितान् अव-रक्षेत्यन्वयः / 'अव रक्षणे' धातुः / ‘अव' इति क्रियापदम् / कः कर्ता ? / त्वम् / कान् कर्मतापन्नान् ? / विदुषः / कस्मात् ? / भवात् / किंविशिष्टान् विदुषः / अवनतान्-प्रणतान् / किंविशिष्टस्त्वम् ? | ‘याततमोदयितः' यातं-गतं तमः-अज्ञानं पापं येषां ते याततमाः अर्थान्मुनयः तेषां दयितो-वल्लभः / त्वं किं कुर्वन् ? / स्वभिदधत्-धारयन् / किम् ? | चरणम्-चारित्रम् / “चारित्रचरणे अपि” इत्यभिधानचिन्तामणिः (का० 3, श्लो० 507) / किंविशिष्टं चरणम् ? / 'शिवसुखसाधकम्' शिवसुखं-मुक्तिसुखं तस्य साधकं-प्रापकम् / शिवस्य सुखं शिवसुखमिति 'षष्ठीतत्पुरुषः' / पुनः किं कुर्वत् ? / वसत्-निवसत् / किम् ? / 'अनुमानसम्' मानसं मानसं प्रति अनुमानसम्, (मानसं) लक्षीकृत्येत्यर्थः / केषाम् ? / 'सुधियाम्' सुष्ठु-शोभना धीः-बुद्धिः येषां ते तथा तेषाम् / ‘सदनुमानसङ्गमन !' इति / सत्-शोभनं यद् अनुमानं तस्य संगमनं-संघटनं यस्मिन् तस्यामन्त्रणम् / “लिङ्गपरामर्शोऽनुमानम्” इति नैयायिकाः / ‘गमनयातत !' इति / गमाः-सदृशपाठाः नयाः-प्रमाणैकदेशाः एतेषां 'द्वन्द्वः', तैः आ-समन्तात् ततो-विस्तीर्णः यः स तस्यामन्त्रणम् / मोदयितः !' इति / मोदं-हर्षं कारयतीति मोदयिता तस्यामन्त्रणम् / एतानि सर्वाणि जिनसिद्धान्तस्य सम्बोधनपदानि / इति तृतीयवृत्तार्थः / / 79 // ध० टीका-त्वमिति / 'त्वम्' / अवनतान् / प्रणतान् / 'जिनोत्तमकृतान्त !' तीर्थकृत्सिद्धान्त ! / 'भवात्' संसारात् / 'विदुषः' सम्यग्ज्ञानवतः / 'अव' रक्ष / 'सदनुमानसङ्गमन !' सद्-विद्यमानं शोभनं वा अनुमानसङ्गमनं-अनुमानसङ्गतिर्यस्य स आमन्त्र्यते / 'याततमोदयितः' यातं-अपगतं तमो येषां ते याततमसो-मुनयस्तेषां दयितः-इष्टः / शिवसुखसाधकं' मुक्तिसौख्यावर्जकम् / ‘स्वभिदधत्' सम्यक् अभिदधानम् / 'सुधियां' धीमताम् / ‘चरणं' अनुष्ठानम् / 'वसत्' तिष्ठत् / ‘अनुमानसं' मानसं