________________ श्रीअरजिनस्तुतयः -40 तूणीरे संहतेऽपि च” इत्यमरः (श्लो० 2592) / पुनः कथंभूता ? / 'अपमदा' अपगतो मदो-दो यस्याः सा अपमदा / पुनः कथंभूता ? / 'सकलकला' कलकलेन-कोलाहलेन सहिता सकलकला, तारस्वरेण गुणानुच्चरन्तीत्यर्थः / पुनः कथंभूता ? / कला-मधुरा / कथंभूतं जिनराजविसरम् ? / 'अरुणकरं' अरुणौ-रक्तौ करौ-हस्तौ यस्य स तथा तम्, सामुद्रिके सत्पुरुषाणां करचरणयो रक्तत्वेन वर्णनात् / पुनः कथंभूतम् ? / 'अपापदं' अपगता आपद्-विपत्तिः-दुर्दशेति यावत् यस्मात् स तम् / पुनः कथंभूतम् ? / 'उज्जासितजन्मजरं' जन्म च जरा च जन्मजरे ‘इतरेतरद्वन्द्वः', उज्जासिते-प्रतिहते जन्मजरे-जननविस्रसे येन स तथा तम् / 'जरायाः स्वरादी जरस् वा वक्तव्यः' (सा० सू० 205) इति विकल्पपक्षे अभिरूपम् / पुनः कथंभूतम् ? / 'अपकलितापं' अपगतौ कलितापौ-कलहसन्तापौ यस्मात् स तम् / यद्वा अपगतः कलेः-कलिकालस्य [कले:-] कलहस्य वा तापो यस्मादित्यर्थः / पुनः कथंभूतम् ? / 'अदारुणकरं' करोतीति करः, दारुणस्य करो दारुणकरः, पश्चान्नसमासः, तं अदारुणकरम् / पुनः कथंभूतम् ? | ‘अपापदं' अपाप-पुण्यं ददातीत्यपापदः तं अपापदं, पुण्यप्रदमित्यर्थः / / सौ० वृ०-स्तौतीति / अहं तं जिनराजविसरं-तीर्थकरसमूहं नमामीत्यन्वयः / 'नमामि' इति क्रियापदम् / कः कर्ता ? / 'अहम्' / 'नमामि' (वन्दे) / कं कर्मतापन्नम् ? / 'जिनराजविसरम् / ' किंविशिष्टं जिनराजविसरम् ? / उज्जासिता-त्रासिता जन्म-जातिर्जरा-वयोहानिर्मरणादिरूपा येन स उज्जासितजन्मजरः, तं 'उज्जासितजन्मजरम्' / पुनः किंविशिष्टं जिनराजविसरम् ? / अरुणा-रक्ता हस्ता यस्य स अरुणकरः, तं 'अरुणकरम्' रक्तकमलपाणिमित्यर्थः / पुनः किंविशिष्टं जिनराजविसरम् ? / 'तं' प्रसिद्धम् / तं कम् ? / सुरावलिः-देवश्रेणिः समवसरणभूमौ-समवसरणभूमिकायाम् समन्ततः-चतुर्दिशं. यं जिनराजविसरं स्तौति स्मेत्यन्वयः / ‘स्तौति' इति क्रियापदम् / का कर्जी ? | 'सुरावलिः' / 'स्तौति' स्तुतिं करोति / स्म इति पदं अतीतार्थद्योतकम् / 'अस् भुवि' इत्यस्य धातोः उत्तमपुरुषार्थस्य क्रियाबहुत्वप्रयोगः / कं कर्मतापन्नम् ? | ‘यं जिनराजविसरम्' / कस्याम् ? | 'समवसरणभूमौ' / कथम् ? | 'समन्ततः' चतुर्दिशं यथा स्यात् तथा / किंविशिष्टा सुरावलिः ? | सकलाःसंपूर्णा याः कला-ज्ञानविज्ञानादिकाः तासां कलापः-समूहः तेन कलिता-युक्ता ‘सकलकलाकलापकलिता' / पुनः किंविशिष्टा सुरावलिः ? | ‘अपमदा' गतदर्पा | पुनः किंविशिष्टं जिनराजविसरम् ? / अपाप-पुण्यं ददातीति अपापदस्तं 'अपापदम्' / यद्वा अपगता आपद्-विपद् यस्मात् स अपापत्, तं अपापदम् / पुनः किंविशिष्टं जिनराजविसरम् ? / 'अपकलितापं' (अपगतः) कलितापः-कलहदाघो यस्य सः अपकलितापः तं 'अपकलितापम्' / पुनः किंविशिष्टं जिनराजविसरम् ? / अदारुणं-सौम्यं करोतीति अदारुणकरः, तं अदारुणकरम्' / पुनः किंविशिष्टा सुरावलिः ? / कलो-मधुरः कलशब्द:-कलकलस्तेन