________________ 288 शोभनस्तुति-वृत्तिमाला 'अपकलितापं' अपगतौ कलितापौ-कलहसन्तापौ यस्मात् स तथा तम् / (पुनः कथं० ? ‘अदारुणकरं') अदारुणं-अरौद्रं करोति यः स तथा तम् / पुनः कथं० ? ‘अपापदं' अपाप-पुण्यं ददाति यः स तथा तम् / / अथ समासः-समवसरणस्य भूमिः समव० 'तत्पुरुषः' / तस्यां समव० / सुराणां आवलिः सुरावलिः 'तत्पुरुषः' / सकलाश्च ताः कलाश्च सकल० 'कर्मधारयः' / सकलकलानां कलापः सकल० 'तत्पुरुषः' / सकलकलाकलापेन कलिता सकल० 'तत्पुरुषः' / अपगतो मदो यस्याः सा अपमदा 'बहुव्रीहिः' / अरुणौ करौ यस्य सः अरुणकरः ‘बहुव्रीहिः' / तं अरुण० / अपगता आपदो यस्मात् सः अपापत् ‘बहुव्रीहिः' ।तं अपापदम् / जिनानां जिनेषु वा राजानो जिनराजाः 'तत्पुरुषः' / जिनराजानां विसरो जिनराज० 'तत्पुरुषः' / तं जिनराज० / जन्म च जरा च जन्मजरे इतरेतरद्वन्द्वः' / उज्जासिते जन्मजरे येन स उज्जासि० 'बहुव्रीहिः' / तं उज्जासि० / सह कलकलेन वर्तत इति सकल० 'तत्पुरुषः' / कलिश्च तापश्च कलितापौ ‘इतरेतरद्वन्द्वः' / अपगतौ कलितापौ यस्मात् सः अपक० 'बहुव्रीहिः' / तं अपक० / न दारुणमदारुणं तत्पुरुषः' / अदारुणं करोतीत्यदारुणकरः 'तत्पुरुषः' / तं अदारुण० / न पापं अपापं 'तत्पुरुषः' / अपापं ददातीत्यपापद: 'तत्पुरुषः' / तं अपापदम् / / इति काव्यार्थः / / 70 / / (2) सि० वृ०-स्तौतीति / अहं तं जिनराजविसरं-जिनपतिनिकरं नमामि-प्रणमामीत्यर्थः / ‘णम प्रहृत्वे शब्दे च' धातोः कर्तरि वर्तमाने परस्मैपदे उत्तमपुरुषैकवचनं मिप् / 'अप् कर्तरि' (सा० सू० 691) इत्यप्, 'मोरा' (सा० सू० 696) इत्यात्वम्, 'स्वरहीनं०' (सा० सू० 36) / तथा च 'नमामि' इति सिद्धम् / अत्र 'नमामि' इति क्रियापदम् / कः कर्ता ? अहम् / कं कर्मतापन्नम् ? / 'जिनराजविसरम्' जिनानां जिनेषु वा राजानो जिनराजाः तेषां विसरः-समूहः तम् / “समूहो निवहव्यूह-सन्दोहविसरव्रजाः” इत्यमरः (श्लो० 1065) / तच्छब्दस्य यच्छब्दसापेक्षत्वात् तं कम् ? / 'यं' जिनराजविसरं समवसरणभूमौ-समवसृतिभुवि सुरावलिः-देवपङ्क्तिः समन्ततः-सर्वतः स्तौति स्म-वन्दते स्म, अस्तावीदित्यर्थः / 'स्तुञ् स्तुतौ' धातोर्वर्तमाने कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं तिप् / 'अप् कर्तरि' (सा० सू० 691) इत्यप् / 'अदादेर्लुक्' (सा० सू० 880) इति लुक् / 'ओरौ' (सा० सू० 193) इत्यौकारः / ‘स्मयोगे भूतार्थता वक्तव्या' (सा० सू० 733) इति भूतार्थता / अत्र ‘स्तौति स्म' इति क्रियापदम् / का की ? / 'सुरावलिः' सुराणां-देवानामावलिः-सुरावलिः / कं कर्मतापन्नम् ? / 'यम्' / कस्याम् ? / 'समवसरणभूमौ' समवसरणस्य भूमिः समवसरणभूमिः तस्यां समवसरणभूमौ / कथम् ? / समन्ततः / कथम्भूता सुरावलिः ? / 'सकलकलाकलापकलिता' सकलेन - समग्रेण कलाकलापेन कलायाः-विज्ञानस्य, कला शिल्पे कालभेदे” इत्यमरः (स्लो० 2731), कलापेन-समूहेन कलिता-संयुता / “कलापो भूषणे बहे,