________________ श्रीअरजिनस्तुतयः 287 अवचूरिः यश्चक्रवर्तिलक्ष्मी क्षणेन-वेगेन तृणवदत्याक्षीत् तं अरं-अरनामानं जिनं हे जनाः ! आनमत / किंभूतम् ? / 'सन्नाः'-क्षीणा मदमरणमानसंसारा यस्य तम् / लक्ष्मी किंभूताम् ? / 'अनेकपा' गजास्तै राजितां-शोभिताम् / जिनं किंभूतम् ? / ‘द्रुतं' विलीनं यत् सुवर्णं तद्वत् कान्तं-कमनीयम् / आनन्दितं भूरिभक्तिभाजां संनमतां-प्रणामकारकाणाममराणां मानसं-चित्तं येन / तथा सारं-श्रेष्ठम् / दिग्विजयादिप्रक्रमेऽनेके-वहवः पराजिता-अमरा मागधादिदेवा येन तम् / यद्वा लक्ष्मी कथंभूताम् ? / अनेकैः परैरजिताम् / अरं-शीघम् / / 69 // जिनवरेभ्यो वन्दनास्तौति समन्ततः स्म समवसरणभूमौ यं सुरावलिः सकलकलाकलापकलिताऽपमदाऽरुणकरमपापदम् / / तं जिनराजविसरमुज्जासितजन्मजरं नमाम्यहं सकलकला कलाऽपकलितापमदारुणकरमपापदम् // 2 // 70 // -द्विपदी ज० वि०-स्तौतीति / अहं तं जिनराजविसरं-जिनपतिसमूहं नमामि-प्रणमामि इति क्रियाकारकप्रयोगः / अत्र 'नमामि' इति क्रियापदम् / कः कर्ता ? 'अहम्' / कं कर्मतापन्नम् ? 'जिनराजविसरम्' / तमिति तच्छब्दसम्बन्धाद् यच्छब्दघटनामाचष्टे-यं जिनराजविसरं समवसरणभूमौसमवसृतिक्षितौ सुरावलिः-त्रिदशसन्ततिः समन्ततः-सर्वतः स्तौति स्म - वन्दते स्म / अत्र ‘स्म' इति अतीतार्थद्योतको निपातः / अत्रापि 'स्तौति' इति क्रियापदम् / का की ? 'सुरावलिः' / कं कर्मतापन्नम् ? 'यम्' / कस्याम् ? 'समवसरणभूमौ' / कथम् ? 'समन्ततः' / कथंभूता सुरावलिः ? 'सकलकलाकलापकलिता' सकलेन-समग्रेण कलाकलापेन-विज्ञाननिकरेण कलिता-युक्ता / पुनः कथं० ? 'अपमदा' अपगतदर्पा / पुनः कथं० ? 'सकलकला' कलकलेन-कोलाहलेन सहिता, वाढस्वरेण गुणानुच्चरन्तीत्यर्थः / 'पुनः कथं० ? 'कला' मधुरा, मधुरस्वरधारित्वात् / कथंभूतं जिनराजविसरम् ? 'अरुणकरं' आताम्रपाणिम् / पुनः कथं० ? 'अपापदं' अपगतविपदम् / पुनः कथं० ? 'उज्जासितजन्मजरं' उज्जासिते-प्रतिहते जन्मजरे-जननविस्रसे येन स तथा तम् / पुनः कथं० ?